पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/८४

पुटमेतत् सुपुष्टितम्
७४
वेणीसंहारे

 धृतराष्ट्रः--दुरात्मन्वृकोदर ! न खल्विदं भवतैव केवलं सपत्नानामपकृतम् । यावत्क्षत्रं तावत्समरविजयिनो जिता हताश्च वीराः । तत्किमेवं विकत्थनाभिरस्मानुद्वेजयसि ? ।

 भीमः--तात ! अलं मन्युना ।

कृष्णा केशेषु कृष्टा तव सदसि वधूः पाण्डवानां नृपैर्यैः
 सर्वे ते क्रोधवन्हौ कृशशलभकुलावज्ञया येन दग्धाः ।
एतस्माच्छ्रावयेऽहं न खलु भुजबलश्लाघया नापि दर्पा-
त्पुत्रैः पौत्रैश्च कर्मण्यतिगुरुणि कृते तात साक्षी त्वमेव ॥ २९ ॥

 दुर्योधनः--अरेरे मरुत्तनय! किमेवं वृद्धस्य राज्ञः पुरतो निन्दितव्यमात्मकर्म श्लाघसे । अपि च ।

कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा
 प्रत्यक्षं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी ।
अस्मिन्वैरानुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा
 बाह्वोर्वीर्यातिरेकद्रविणगुरुमदं मामजित्वैव दर्पः ? ॥ ३० ॥

( भीमः क्रोधं नाटयति । )

 अर्जुनः-- आर्य! प्रसीद । किमत्र क्रोधेन ?।

अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा ।
हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ? ॥ ३१ ॥

 भीमः-- अरेरे भरतकुलकलङ्क !

अत्रैव किं न विशसेयमहं भवन्तं
 दुःशासनानुगमनाय कटुप्रलापिन् ! ।
विघ्नं गुरुर्न कुरुते यदि मत्कराग्र-
 निर्भिद्यमानरणितास्थनि ते शरीरे ॥ ३२ ॥

 अन्यच्च मूढ !

शोकैः स्त्रीवन्नयनसलिलं यत्परित्याजितोऽसि
 भ्रातुर्वक्षःस्थलविघटने यच्च साक्षीकृतोऽसि ।
आसीदेतत्तव कुनृपतेः कारकं जीवितस्य
 क्रुद्धे युष्मत्कुलकमलिनीकुञ्जरे भीमसेने ॥ ३३ ॥