पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/८५

पुटमेतत् सुपुष्टितम्
७५
पञ्चमोऽङ्कः ।

 दुर्योधनः--दुरात्मन्! भरतकुलापसद! पाण्डवपशो! नाहं भवानिव विकत्थनाप्रगल्भः । किं तु

द्रक्ष्यन्ति नचिरात्सुप्तं बान्धवास्त्वां रणाङ्गणे ।
मद्गदाभिन्नवक्षोऽस्थिवेणिकाभीमभूषणम् ॥ ३४ ॥

 भीमः-- ( विहस्य ) यद्येवं, नाश्रद्धेयो भवान् । तथापि प्रत्यासन्नमेव । कथयामि ।

पीनाभ्यां मद्भुजाभ्यां भ्रमितगुरुगदाघातसंचूर्णितोरोः
 क्रूरस्याधाय पादं तव शिरसि नृणां पश्यतां श्वः प्रभाते ।
त्वन्मुख्यभ्रातृचक्रोद्दलनगलदसृक्चन्दनेनानखाग्रं
 स्त्यानेनार्द्रेण चाक्तः स्वयमनुभविता भूषणं भीममस्मि ॥ ३५ ॥

( नेपथ्ये )

 भो भो भीमसेनार्जुनौ! एष खलु निहताशेषारातिचक्र आक्रांतपरशुरामाभिरामयशाः प्रतापतापितदिङ्मण्डलस्थापितस्वजनः श्रीमानजातशत्रुर्देवो युधिष्ठिरः समाज्ञापयति ।

 उभौ-- किमाज्ञापयत्यार्यः ? ।

( पुनर्नेपथ्ये । )

कुर्वन्त्वाप्ता हतानां रणशिरसि जना वन्हिसाद्देहभारा-
 नश्रून्मिश्रं कथंचिद्ददतु जलममी बान्धवा बान्धवेभ्यः ।
मार्गन्तां ज्ञातिदेहान्हतनरगहने खण्डितान्गृध्रकङ्कै-
 रस्तं मास्वान्प्रयातः सह रिपुभिरयं संह्रीयन्तां बलानि ॥ ३६ ॥

 उभौ--यदाज्ञापयत्यार्यः । ( इति निष्क्रान्तौ । )

( नेपथ्ये । )

अरे रे गाण्डीवाकर्षण बाहुशालिन्! अर्जुन! अर्जुन! क्वेदानीं गम्यते ? ।

कर्णक्रोधेन युष्मद्विजयि धनुरिदं त्यक्तमेतान्यहानि
 प्रौढं विक्रान्तमासीद्वन इव भवतां शूरशून्ये रणेऽस्मिन् ।
स्पर्शं स्मृत्वोत्तमाङ्गे पितुरनवजितन्यस्तहेतेरुपेतः ।
 कल्पाग्निः पाण्डवानां द्रुपदसुतचमूघस्मरो द्रौणिरस्मि ॥ ३७ ॥