युधिष्ठिरः--कृष्णे ! एवं मन्यते जरासंधघाती । हतसकलसुहृद्बन्धुवीरानुजराजन्यासु कृपकृतवर्माश्वत्थामशेषास्वेकादशस्वक्षौहिणीष्वबान्धवः शरीरमात्रविभवः कदाचिदुत्सृष्टनिजाभिमानो धार्तराष्ट्रः परित्यजेदायुधं तपोवनं वा व्रजेत्सन्धिं वा पितृमुखेन याचेत । एवं सति सुदूरमतिक्रान्तः प्रतिज्ञाभारो भवेत्सकलरिपुजयश्चेति । समरं प्रतिपत्तुं पञ्चानामपि पाण्डवानामेकस्यापि नैव क्षमः सुयोधनः । शङ्के चाहं गदायुद्धं वकोदरस्यैवानेन । अयि सुक्षत्रिये ! पश्य ।
क्रोधोद्गूर्णगदस्य नास्ति सदृशः सत्यं रणे मारुतेः |
( नेपथ्ये । )
तृषितोऽस्मि भोस्तृषितोऽस्मि संभावयतु कश्चित्सलिलच्छायासंप्रदानेन माम् ।
युधिष्ठिरः--( आकर्ण्य । ) कः कोऽत्र भोः ? ।
( प्रविश्य )
कञ्चुकी--आज्ञापयतु देवः ।
युधिष्ठिरः--ज्ञायतां किमेतत् ।
कञ्चुकी--यदाज्ञापयति देवः । ( इति निष्क्रम्य पुनः प्रविश्य । )
देव ! क्षुद्वानतिथिरुपस्थितः ।
युधिष्ठिरः--शीघ्रं प्रवेशय ।
कञ्चुकी--यदाज्ञापयति देवः ( इति निष्क्रान्तः )
( ततः प्रविशति मुनिवेषधारी चार्वाको नाम राक्षसः )
राक्षसः--( आत्मगतम् । ) एषोऽस्मि चार्वाको नाम राक्षसः सुयोधनस्य मित्रं पाण्डवान्वञ्चयितुं भ्रमामि । ( प्रकाशम् ।) तृषितोऽस्मि । सम्भावयतु मां कश्चिज्जलच्छायाप्रदानेन । ( इति राज्ञः समीपमुपसर्पति । )
( सर्व उत्तिष्ठन्ति ।)
युधिष्ठिरः--मुने ! अभिवादये ।
राक्षसः--अकालोऽयं समुदाचारस्य । जलप्रदानेन सम्भावयतु माम् ।