युधिष्ठिरः--मुने ! इदमासनम् । उपविश्यताम् ।
राक्षसः--( उपविश्य । ) ननु भवताऽपि क्रियतामासनपरिग्रहः ।
युधिष्ठिरः--( उपविष्य )कोऽत्र भोः! सलिलमुपनय ।
( प्रविश्य गृहीतभृङ्गारः )
कञ्चुकी--( उपसृत्य । ) महाराज ! शिशिरसुरभिसलिलसम्पूर्णोऽयं भृङ्गारः पानभाजनं चेदम् ।
युधिष्ठिरः--मुने ! निर्वर्त्यतामुदन्याप्रतीकारः ।
राक्षसः--( पादौ प्रक्षाल्योपस्पृशन्विचिन्त्य ) भोः क्षत्रियस्त्वमिति मन्ये ।
युधिष्ठिरः--सम्यग्वेत्ति भवान् ।
राक्षसः--प्रतिदिनसुलभस्वजनविनाशेषु सङ्ग्रामेषु युष्मत्तो नादेयं सलिलादिकम् । भवतु । छाययैवानया सरस्वतीशिशिरतरङ्गस्पृशा मरुता चानेन विगतक्लमो भविष्यामि ।
द्रौपदी–-बुद्धिमदिए । वीएहि महेसिं इमिणा तालवण्डेण । ( बुद्धिमतिके ! वीजय महर्षिमनेन तालवृन्तेन । )
( चेटी तथा करोति ।)
राक्षसः--भवति ! अनुचितोऽयमस्मासु समुदाचारः ।
युधिष्ठिरः--मुने ! कथय कथमेवं भवान्परिश्रान्तः ? ।
राक्षसः--मुनिजनसुलभेन कौतूहलेन तत्रभवतां महाक्षत्रियाणां द्वन्द्वयुद्धमवलोकयितुं पर्यटामि समन्तपञ्चकम् । अद्य तु बलवत्तया शरदातपस्यापर्याप्तमेवावलोक्य गदायुद्धमर्जुनसुयोधनयोरागतोऽस्मि ।
( सर्वे विषादं नाटयन्ति ।)
कञ्चुकी--मुने ! न खल्वेवम् । भीमसुयोधनयोरिति कथय ।
राक्षसः--आः, अविदितवृत्तान्त एव कथं मामाक्षिपसि ।
युधिष्ठिरः-–महर्षे ! कथय कथय ।
राक्षसः--क्षणमात्रं विश्रम्य सर्वं कथयामि भवतो, न पुनरस्य वृद्धस्य ।
युधिष्ठिरः--कथय किमर्जुनसुयोधनयोरिति ? ।
राक्षसः--ननु पूर्वमेव कथितं मया प्रवृत्तं गदायुद्धमर्जुनसुयोधनयोरिति ।