पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/९६

पुटमेतत् सुपुष्टितम्
८६
वेणीसंहारे

 युधिष्ठिरः--न भीमसुयोधनयोरिति ? ।

 राक्षसः--वृत्तं तत् ।

( युधिष्ठिरो द्रौपदी च मोहमुपगतौ । )

 कञ्चुकी--( सलिलेनासिच्य । ) समाश्वसितु देवो देवी च ।

 चेटी--समस्ससदु समस्ससदु देवी । ( समाश्वसितु समाश्वसितु देवी ।)

( उभौ संज्ञां लभेते । )

 युधिष्ठिरः--किं कथयसि मुने ! वृत्तं भीमसुयोधनयोर्गदायुद्धमिति ?।

 द्रौपदी--भअवं ! कहेहि कहेहि किं वुत्तं ? ति । ( भगवन् ! कथय कथय किं वृत्तमिति ।)

 राक्षसः--कञ्चुकिन् कौ पुनरेतौ ? ।

 कञ्चुकी--एष देवो युधिष्ठिरः । इयमपि पाञ्चाली ।

 राक्षसः--आः ! दारुणमुपक्रान्तं मया नृशंसेन ।

 द्रौपदी--हा णाह भीमसेण ! ( हा नाथ भीमसेन ! ) ( इति मोहमुपगता )

 कञ्चुकी--किं नाम कथितम् ! ।

 चेटी--समस्ससदु समस्ससदु देव । (समाश्वसितु समाश्वसितु देवी । )

 युधिष्ठिरः--( सास्रम् ।)ब्रह्मन् !

पदे संदिग्ध एवास्मिन्दुःखमास्ते युधिष्ठिरः ।
वत्सस्य निश्चिते तत्त्वे प्राणत्यागादयं सुखी ॥ १४ ॥

 राक्षसः--( सानन्दमात्मगतम् ) अत्रैव मे यत्नः । ( प्रकाशम् ) यदि त्ववश्यं कथनीयं तदा संक्षेपतः कथयामि । न युक्तं बन्धुव्यसनं विस्तरेणावेदयितुम् ।

 युधिष्ठिरः--( अश्रूणि मुञ्चन् )

सर्वथा कथय ब्रह्मन्संक्षेपाद्विस्तरेण वा ।
वत्सस्य किमपि श्रोतुमेष दत्तः क्षणो मया ॥ १६ ॥

 राक्षसः--श्रूयताम् ।

तस्मिन्कौरवभीमयोर्गुरुगदाघोरध्वनौ संयुगे

 द्रौपदी--( सहसोत्थाय । )तदो तदो । ( ततस्ततः ?)