युधिष्ठिरः--साधु भो अर्जुन ! साधु, तदैव प्रतिपन्ना वृकोदरानुगमनपदवी गाण्डीवं परित्यजता त्वया । अहं पुनः केनोपायेन प्राणापगमनमहोत्सवमुत्सहिष्ये ।
द्रौपदी--हा णाह भीमसेण ! ण जुत्तं दाणिं दे कणीअसं भादरं असिक्खिदं गदाए दारुणस्स सत्तुणो अहिमुहं गच्छन्तं उवेक्खिदुम् । ( हा नाथ भीमसेन ! न युक्तमिदानीं ते कनीयांसं भ्रातरमशिक्षितं गदायां दारुणस्य शत्रोरभिमुखं गच्छन्तमुपेक्षितुम् ।) ( मोहमुपगता )
राक्षसः--ततश्चाहं--
युधिष्ठिरः--भवतु मुने ! किमतःपरं श्रुतेन ? हा तात भीमसेन ! हा कान्तारव्यसनबान्धव ! हा मच्छरीरस्थितिविच्छेदकातर ! हा जतुगृहविपत्समुद्रतरणयानपात्र ! हा किर्मीरहिडिम्बासुरजरासंधविजयमल्ल ! हा कीचकसुयोधनानुजकमलिनीकुञ्जर !
निर्लज्जस्य दुरोदरव्यसनिनो वत्स ! त्वया सीदता |
द्रौपदी--( संज्ञामुपलभ्योत्थाय च ।) महाराअ ! किं एदं वट्टई ? । ( महाराज ! किमेतद्वर्तते ? ।)
युधिष्ठिरः--कृष्णे ! किमन्यत् ? ।
स कीचकनिषूदनो बकहिडिम्बकिर्मीरहा |
द्रौपदी--णाह भीमसेण ! तुए किल मे केसा संजमिदव्वा । ण जुत्तं वीरस्स खत्तिअस्स पडिण्णादं सिढिलेदुम् । ता पडिवालेहि मे जाव उवसप्पामि । ( पुनर्मोहमुपगता । ) ( नाथ भीमसेन! त्वया किल मे केशाः संयमयितव्याः । न युक्तं वीरस्य क्षत्रियस्य प्रतिज्ञातं शिथिलयितुम् । तत्त्प्रतिपालय मां यावदुपसर्पामि ।)