पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१००

पुटमेतत् सुपुष्टितम्
७४
[महांभूतविवेकं
पञ्चदशी

नीरोग उपविष्टो वा रुग्णो वा विलुठन् भुवि।
मूर्छितो वा त्यजत्वेष प्राणान् भ्रान्तिर्न सर्वथा ॥१०६॥

 नीरोगो निर्गतो रोगात्सः उपविष्टो वा रुग्णो रुजाविष्टः । भुवि विलुठन् परिभ्रमन् वा मूर्छितो वा एष ज्ञानी प्राणान् त्यजतु । सर्वथा तस्य भ्रान्तिर्न द्वैप्तविषयकभ्रान्तिनोंदेति । अयं भावः । अयं रुग्ण उपविष्ट इत्यादिकं सर्वमन्यदीयभ्रान्तिगोचरम्। जीवन्मुक्तस्याद्वैतज्ञानविध्वस्ताज्ञानतया, द्वैतज्ञानप्रयोजकज्ञानिकस्य मनसश्चित्तविकाराणां प्राणवियोगकालेऽसंभवात् । प्राणवियोगादिकं त्वविद्वद्दृष्ट्येव। विद्वद्दृष्ट्या न तस्य प्राणा उत्क्रामन्तीति श्रुत्युक्तं संगच्छत इति ॥१०६॥

 मूर्छादिना प्राणवियोगेन वा जातायाः लौकिकज्ञानस्येंवाद्वैतबुद्धेर्विस्मृतौ नाश एव स्यादिति लोकदृष्टया प्राप्तां शंकां ‘‘तुष्यतु दुर्जन” इति न्यायेंन तद्गीतिमनुसृत्यैव समाधत्ते, दिन इति ।

दिने दिने स्वप्नसुप्त्योरधीते विस्मृतेऽप्यम् ।
परेद्युर्नानधीतः स्यात्तद्वद्विद्या न नश्यति ॥ १०७ ॥

 दिने दिने प्रतिदिनमधीते वेदे स्वप्नसुप्त्योंर्विस्मृतेऽप्ययमध्येता परेद्युः परस्मिन् दिनेऽनधीतो न स्यात् । स्वप्नसुषुप्तिसमये यो विस्मृतो वेदः पुनरुत्थानानन्तरं पठयते। तद्वद् ध्यानान्मानाधुक्तितोऽपि दृढीकृता विद्या न नश्यतीत्यर्थः१०७॥

 सिद्धान्तमनुसृत्य समाधत्ते, प्रमाणेति ।

प्रमाणोत्पादिता विद्या प्रमाणं प्रबलं विना ।।
न नश्यति न वेदान्तात्प्रबलं मानमीक्ष्यते ॥ १०८॥

 प्रमाणोत्पादिता प्रमाकरणं प्रमाणम्; प्रत्यक्षानुमानशब्दा इति प्रमाण त्रयमभ्युपगम्यते साङ्ख्यादिभिः । न्यायनये तूपमानस्यापि प्रमाणत्वमङ्गीक्रियते । प्रत्यक्षानुमानशाब्दानां मध्ये प्रत्यक्षानुमानापेक्षया शब्दस्य प्राबल्यमङ्गीक्रियते, तस्य श्रतिरूपस्य दोषासंस्पृष्टत्वात् । प्रत्यक्षप्रमाणस्यातीन्द्रियविषयाग्राहकत्वं प्रत्यक्षमेव ।