पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१०२

पुटमेतत् सुपुष्टितम्

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी


पञ्चकोशविवेकप्रकरणम् ।


पञ्चकोशस्वरूपनिरूपणम् ।

 परब्रह्मावबोधनाय पञ्चकोशविवेकस्यावम्श्यकर्तव्यतयाऽर्थात्तेषामादिका- रणभूतस्य वियदादिभूतपञ्चकस्य प्रसंगसंगत्या भौतिकदेहस्य च विवेचनाप्रकारो द्वितीये प्रकरणे विस्तृतः । तृतीये तु पञ्चकोशविवेचनाविचारमारभते गुहेति ।

गुहाहितं ब्रह्म यत्तत्पञ्चकोशविवेकतः।
बोद्धुं शक्यं ततः कोशपञ्चकं प्रविविच्यते ॥ १॥

 गुह्याहितं गुहायामन्नमयाद्यानन्दमयान्तानां पञ्चकोशानां समुदाये आहितं निविष्टं यत् ब्रह्म प्रत्यगात्माभिन्नं परं ब्रह्म विद्यते तत् पञ्चकोशविवेकतोऽन्वयव्यतिरेकाभ्यां पञ्चकोशानां विवेचनेन बोद्धुं शक्यम् । ततः कोशपञ्चकं प्रविविच्यते॥१॥

 स्वयमेव गुहाशब्दं विवृणोति, देहेति ।

देहादभ्यन्तरः प्राणः प्राणादभ्यन्तरं मनः।
ततः कर्ता ततो भोक्ता गुहा सेयं परम्परा ॥ २ ॥

 देहादन्नमयकोशादभ्यन्तरोऽन्तर्भवः प्राणः । स च प्राणमयकोशः क्रिया शक्तिकारणभूतः पञ्चवृत्त्यात्मकः । प्राणादभ्यन्तरं मनः। मनोमयकोशः ।विमर्शात्मकः। ततो मनोमयकोशादभ्यन्तरः । कर्ता अहं करोमीति कर्तृत्वधर्मविशिष्टो विज्ञानमयकोशः । ततो विज्ञानमयादभ्यन्तरा भांक्ता प्रियमोदप्रमादादीनामनुभविताऽनन्दमयः। प्रियमोदादीनामानन्दच्छायात्वात् । आभ्यन्तरशब्दे