पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१०४

पुटमेतत् सुपुष्टितम्
७८
[ पञ्चकोशविवेक
पञ्चदशी

स्यात् । तथा च देहातिरिक्तस्यात्मनोऽभावे कृतहानाकृताभ्यागमप्रसंग हति भावः ॥४॥

 प्राणमयकोशस्य स्वरूपमनात्मत्वं चाह, पूर्ण इति।

पूर्णो देहे बलं यच्छन्नक्षाणां यः प्रवर्तकः ।
वायुः प्राणमयो नासावात्मा चैतन्यवर्जनात् ॥ ५॥

 यतो वायुर्बलं यच्छन् व्यानरूपेण पुष्टिं कल्पयन्नक्षाणामिन्द्रियाणां प्रवर्तकस्संचालको देहे पूर्ण आपादमस्तकं व्याप्तः स वायुः प्राणमयस्तन्नामकः कोशो भवति । ननु प्राणमय आत्मा । तस्यैव जन्मस्थितिलयहेतुत्वात् । प्राणवायुयोंषिद्गर्भं प्रविष्टं रेतो घनोभावमापाद्य पिण्डादि क्रमेण देहमुत्पादयति । श्वासकोशद्वारा प्राणवायुसंचलनमेवायुरित्युच्यते ।“प्राणो हि भूतानामायुः"(तै.२.३.)। तदुत्क्रान्तिरेव मरणमिति च लोकप्रसिद्धिः। तथैव भृगुर्व्यजानात् "प्राणाध्येव खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति; प्राणं प्रयन्यभिसंविशन्ती " (तै.३.३.)ति (तै. ३. ३.) चेन्नेत्याह, नेति । तथाप्यसौ प्राणो नात्मा भवति । कुतः? चैतन्यवर्जनात् अचेतनत्वात् ॥ ५ ॥

 मनोमयस्वरूपं तस्यानात्मत्वं चाचष्टे, अहमिति ।

अहन्तां ममतां देहे गेहादौ च करोति यः।
कामाद्यवस्थया भ्रान्तो नासावात्मा मनोमयः ॥ ६ ॥

 आदौ तस्य स्वरूपं दर्शयति, अहमिति। यो देहे अहन्तां अहंभावं गेहादौ गृह्कळत्रपुत्रादिषु ममतां ममेदमित्यभिमानं च करोति स मनोमयकोशः । अहमिदं ममेदमित्यभिमानाविष्टो मनोमयकोशः। अद्य तस्यानात्मत्वं दर्शयति; कामेति । माऽस्तु चैतन्याभावादात्मा प्राणमयः, मनोमयः किं न स्यात् ? मनसः सात्त्विकांशभूतज्ञानशक्तिकत्वाच्चेतनत्वस्य तस्य विद्यमानत्वात् । “ मनसो ह्येव खल्विमानि भूतानि जायन्ते” (तै. ३. ४.) इत्यादिना तस्य जन्मादिकारणत्वमप्युक्तम्। मरणकाले तृणजलकन्यायेन जीवात्मा मनसा देहान्तरं संभाव्य