पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१०५

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
७९
कल्याणपीयूषव्याख्यासमेता

स्वमानन्दे देहान्तरं नयति।स्थितिहेतुं सर्वव्यवहारं मनसैव विदांकरोति । सर्वसंगपरित्यागोऽपि मनसैव कर्तव्यः । अतो मन आत्मा भवितुमर्हति, इति शंकां निराकरोति । कामाद्यवस्थया कामक्रोधादिविकारावस्थया भ्रान्तोऽहमिदं ममेदमित्ययथार्थवस्तुषु तादात्म्यभावमापन्नः । ततो नासावात्मा मनोमयकोशः । आत्मनो निर्विकारत्वस्य श्रुतिसिद्धतया तद्विरोधेन विकारवान् मनोमयकोशो नात्मेति भावः ॥ ६ ॥

 अथ विज्ञानमयस्वरूपाख्यानपूर्वकं तस्याप्यनात्मत्वं प्रदर्शयति, लीनेति ।

लीना सुप्तौ वपुर्बोधे व्याप्नुयादानखाग्रगा ।
चिच्छायोपेतधीर्नात्मा विज्ञानमयशब्दभाक् ॥ ७॥

 या चिच्छायापतधीः चितश्छाया प्रतिबिंबस्तेनोपेता धीर्बृद्धिर्निश्चयात्मिका । सा बुद्धिः सुप्तौ लीना लयं गता। बोधे जाग्रदवस्थायामानखाग्रगा नखानामग्राणि चाभिव्याप्य-गच्छतीति तथाभूता वपुः शरीरं व्याप्नुयात् । सा धीर्विज्ञानमयशब्दभाक् भवति।स आत्मा न भवति । "विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि चे"(तै. २.५.) त्याद्युक्तरीत्या कर्तृत्वाभिमानी विज्ञानमयः कर्माण्याचरति । तत्फलानुभवार्थं देहान्तरमाप्नोति च। विज्ञानमयस्य जन्मकारणत्वं “पुण्यो वै पुण्येन कर्मणा भवति पापः पापेने (बृ.४.४.५) ति श्रुत्याऽवगम्यते । व्यापारादौ कृतनिश्चयता मनसः स्थितिहेतुत्वम् । युद्धादौ मरणकारणत्वं च दृष्टम् । अतो विज्ञानमयस्यात्मत्वं xxx । तथापि तस्य लयस्वभावान्नात्मत्वम् । तदेतत्सूचितं, लीना सुप्ताविति विशेषणेनेति बोध्यम् ॥ ७ ॥

 मनोमयविज्ञानमयकोशयोस्स्वरूपभेदमाह, कर्त्रिति ।

कर्तृत्वकरणत्वाभ्यां विक्रियेतान्तरिन्द्रियम् ।
विज्ञानमनसी अन्तर्बहिश्चैते परस्परम् ॥ ८॥

 अन्तरिन्द्रियमन्तःकरणं कर्तुत्वकरणत्वाभ्यां ; असाधारणकरणं करणं, तस्य भावःकरणत्वम्; ताभ्यां विक्रियेत विपर्येति । किमिदं पथ्यमपथ्यं वेति प्रथमे