पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१०९

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
८३
कल्याणपीयूषव्याख्यासमेता

अर्पकान्तरराहित्येप्यस्त्येषां तत्स्वभावता ।
मा भूत्तदानुभाव्यत्वं बोधात्मा तु न हीयते ॥ १५॥

 एषां माधुर्यादीनामर्पकान्तरराहित्येऽप्यर्पणं रसप्रधानं करोतीत्यर्पकः । तस्यान्यस्य राहित्येऽप्यभावेऽपि तस्मिन्नन्येन माधुर्यरससमर्पणाभावेऽपि तत्स्वभावता मधुरिमा अस्त्येव । तथैवमात्मनोऽनुभाव्यत्वं ज्ञानविषयत्वं मा भूत् माऽस्तु । तन्मात्रेण बोधात्मा तु ज्ञानस्वरूप आत्मा तु न हीयते न त्यज्यते । अन्यप्रकाश्यत्वाभावेऽपि प्रकाशस्योपलब्धेरित्यर्थः ।। १५ ॥

 आत्मनः स्वयंप्रकाशत्वं श्रौतयुक्त्या श्रुत्या च प्रमाणयन् युक्तिबोधिकां श्रुतिमर्थतः पठति ।

स्वयंज्योतिर्भवत्येष पुरोऽस्माद्भासतेऽखिलात् ।
तमेव भान्तमन्वेति तद्भासा भास्यते जगत् ॥ १६ ॥

 एष ज्ञानस्वरूप आत्मा स्वयंज्योतिः प्रकाशकान्तरमनपेक्ष्य स्वप्रकाशको भवति । यतोऽयमस्माद्भासमानादखिलात्सर्वस्माज्जगतः पुरः सृष्टेः प्राक् भासते । अतः स्वयं प्रकाशः। एवं श्रुतिप्रतिपादितां युक्तिं प्रदर्श्य प्रमाणभूतां “तमेवभान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाती” (मुं. २.२.१०) ति श्रुतिमर्थतः पठति, तमिति । भान्तं प्रकाशमानं तमात्मानं सर्वं जगदन्वेति अनुसृत्य भासते । तद्भासा जगत् भासते । यदभावे जगदान्थ्यप्रसङ्ग इति भावः ॥ १६ ॥ ।

 उक्तार्थे ‘‘येनेदं सर्वं विजानाति तं केन विजानीयाद्विज्ञातारमरे ! केन विजानीयादि’ (बृ. २. ४. १४) ति श्रुत्यन्तरमर्थतः पठति, येनेति ।

येनेदं जानते सर्वं तत्केनान्येन जानताम् ।
विज्ञातारं केन विंद्याच्छक्तं वेद्ये तु साधनम् ॥ १७ ॥

 येन साक्षिणेदं जगत्सर्वं प्राणिनो जानते तच्चैतन्यरूपमात्मवस्त्वन्येन केन साक्षिभूतेन जानताम् ? अन्यस्य विद्यमानेऽनवस्थादोषापत्तेः । विज्ञातारं साक्षिणमन्येन केन साधनेन विंद्याद्विजानीयात् । ननु मनसा ज्ञेय एवेत्यत आह ।