पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/११

पुटमेतत् सुपुष्टितम्

लक्षणं निर्गुणं निष्क्रियं ब्रह्म एकमेव तत्त्वम् । अन्यत्सर्वं शुक्तौ रजतमिवाधिष्ठाने ब्रह्मण्यविद्यापरिकल्पितम् । तच्च न सत् । भाधदर्शनात् । नाप्यसत् । प्रतीयमानत्वात् । अतस्सदसद्विलक्षणमनिर्वचनीयम् तत् । ज्ञातायां शुक्तिकायां तत्र कल्पितरजतस्येव ब्रह्मणि ज्ञाते तत्र कल्पितप्रपंचस्यापि निवृत्तिर्भविष्यति । निवृत्तिश्चात्र मिथ्यात्वनिश्चय एव । तत्र मिथ्यात्वे निश्चिते ऐंद्रजालिककल्पितमायापदार्थस्येव सुखदुःखादिरूपबंधहेतुत्वाभावान्मोक्ष एव भविष्यति । जीवस्य स्वरूपे उपाधिविनिर्मोकेण विविच्यमाने सत्यज्ञानानन्दरूपमेवावशिष्यत इति तस्य सत्यज्ञानानन्दरूपत्वेन ब्रह्मलक्षणाक्रांततया ब्रह्मभाव एव भवति ।

 एवं शोधितं जीवतत्त्वं ब्रह्मणो नातिरिच्यत इति विवेकेन जीवब्रह्मैक्यज्ञानादेव मोक्षः। इति सर्वश्रुतिसिद्धस् सिद्धान्तं प्रदर्शयन्तः पंचदशप्रकरणात्मकं वेदान्तपंचदशीनामकं ग्रंथम् व्यरचयन् श्रीविद्यारण्यस्वामिनः।

 यद्यपि वेदस्य बहुशाखाविप्रकीर्णतया तत्तात्पर्यविषयीभूतसिद्धान्तपरिज्ञानं सर्वेषाममुलभं मत्वा भगवान् व्यासापरनामधेयो बादरायणो ब्रह्मसूत्राणि प्रणिनायि । मुमुक्षुजनानुजिघृक्षया तत्सूत्रार्थनिर्णये च प्रयतमानेषु श्रीमच्छंकरभगवत्पूज्यपादा अद्वैतसिद्धान्तस्यैवोपनिषत्सूत्रतात्पर्यविषयत्वमिति प्रकटयन्तश्शारीरक-मीमांसाभाष्यं विरचयांचक्रुः । तदनुसारेण च बहवो ग्रंथा विरचिताः पंडितप्रकांडैः । तत एव जीवब्रह्मैक्यज्ञानं सुसंपादम् । तथापि तेषां ग्रंथनामतिप्रौढतया शास्त्रनिष्णातमात्रोपकारकत्वेऽपि साधारणजनोपकारकत्वं नैव घटत इत्यभिप्रेत्य मुमुक्षूणां सुखेन सिद्धान्तबोधायायं प्रयास आदृतः श्रीस्वामिचरणैः। अयं च ग्रंथो भागत्रयात्मकतया संलक्ष्यते । तत्र विवेकपंचकमित्येको भागः । दीपपंचकमित्यपरः । आनंदपंचकमित्यन्यः। विचार्यमाणे आनंदपंचकस्य पृथग्ग्रंथत्वमेव ब्रह्मानंदाभिख्यया प्रतिभाति । तदुपक्रमे “ब्रह्मानंदं प्रवक्ष्यामी"ति प्रतिज्ञादर्शनात् तत्रत्यतत्तत्प्रकरणावसाने “ब्रह्मानंदे योगानंदः आत्मानंदः इत्याद्युपसंहारदर्शनाच्च । न चैव प्रतिज्ञाप्रकरणान्तरेषु कापि दृश्यते । यद्यपि ग्रंथारंभे तत्त्वविवेकस्यैव प्रतिज्ञातत्त्वेन दीपपंचकस्य पार्थक्यं शंकितुं शक्यम् । तथापि तत्रोपक्रान्तप्रत्यक्तत्वनिरूपणस्य पंचभूतविवेकादिनिरूपणमन्तरा दुश्शकतया प्रत्यक्त्त्वविवेकनिरूपणे प्रतिज्ञाते पंचभूतविवेकादिनिरूपण