वेद्ये तु ज्ञेयवस्तुनि विषये साधनमन्तःकरणं शक्तं समर्थम्; न त्वविषये वेत्तरि । “यतो वाचो निवर्तन्ते अप्राप्य मनसा सहे"(तै-२.४.) ति श्रुतेः । मनसो न साक्षी विषयः । यतस्तस्य भासा मनोऽपि स्वविषयम् वेत्तीति भावः ॥ १७॥
"स वेत्ति वेद्यं न तस्यास्ति वेत्ता” (श्वेत. ३.१९.) “अन्यदेव तद्विदितादथो अविदितादधी ” (केन १.३.) त्यादि श्रुत्युक्तमर्थं विशदयति, स इति।
स वेत्ति वेद्यं तत्सर्वं नान्यस्तस्यास्ति वेदिता। |
स साक्षी यद्यद्वेद्यं ज्ञेयमस्ति तत्सर्वं वेत्ति । तस्य साक्षिणोऽन्यो वेदिता। ज्ञाता नास्ति । बोधस्वरूपकं ज्ञानात्मकं परं ब्रह्म । विदिताविदिताभ्यां विदितं ज्ञानविषयं जगदादिकं। अविदितमज्ञानेन शबलितम् । ताभ्यां पृथक् विलक्षणम्। स बोधो विषयाद्भिन्नः ॥१८॥
उक्तरीत्या विविधेष्वपि व्यवहारेषु घटपटादयो येन व्यवहर्त्राऽनुभूयन्ते तद्वयवहर्तुस्तद्बोधस्वरूपात्मत्वे सिद्धेऽपि स्वात्मानमपि बोधस्वरूपं यो न वेत्ति तमुपालभते श्लोकद्वयेन ।
बोधेऽप्यनुभवो यस्य न कथंचन जायते ।। |
बोधेऽपि साक्षित्वेन विषयिण्यात्मन्यपरोक्षेण विद्यमानेऽपि यस्यानुभवः साक्षात्कारः कथंचन कथमपि न जायते नोदेति तं नरसमाकृतिं नरेण समा बाह्याकृतिर्यस्य तं नरत्वेन व्यवह्रियमाणमपि लोष्टं तद्वज्जडम् कुंठितबुद्धेि शास्त्रं कथं बोधयेत् न बोधयत्येव ॥ १९ ॥
बोधो न बुध्यत इत्युक्तिरेव व्याहतेत्याह, जिह्वेति ।
जिह्वा मेऽस्ति न वेत्युक्तिर्लज्जायै केवलं यथा । |