पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/११४

पुटमेतत् सुपुष्टितम्
८८
[पञ्चकोशविवेक
पञ्चदशी

अवेद्योऽप्यपरोक्षोऽतः स्वप्रकाशो भवत्ययम् ।
सत्यं ज्ञानमनन्तं चेत्यस्तीह ब्रह्मलक्षणम् ॥ २८ ॥

 अयमात्मा इन्द्रियाणामवेद्योऽपीन्द्रियजन्यज्ञानाविषयोऽप्यपरोक्षः साक्षा त्कारविषयः । अत एव स्वप्रकाशः। आत्मा स्वप्रकाशः, इन्द्रियजन्यज्ञानाविषयत्वे सत्यपरोक्षत्वात् । यथा संवित् । स्वप्रकाशत्वं नाम स्वयमेव स्वं जानातीति वक्तव्यम् । एवं चेत् स्वस्मिन्नेव कर्मकर्तृव्यपदेशबाधः। संविदोऽपि न ज्ञानविषयत्वम् । अन्यथाऽनवस्थाप्रसंगात् । ननु प्रत्यगात्मनः स्वप्रकाशत्वेऽपि न तस्य ब्रह्मत्वसिद्धिरित्याशंक्य ब्रह्मणः श्रौतं लक्षणं तत्र योजयति, सत्यमिति। इहात्मनि सत्यं ज्ञानमनन्तमिति तैत्तिरोयं ब्रह्मलक्षणमस्त्येव । सत्यं ब्रह्म ज्ञानं ब्रह्म अनन्तं ब्रह्मेत्यस्य मन्त्रस्य योजना । सत्यं बाधरहितं ज्ञानं ज्ञप्तिरवबोधः स्वप्रकाशस्वरूपः। अनन्तं देशकालवस्तुपरिच्छेदरहितम् । इमानि लक्षणानि स्वरूपस्फोरणमात्रफलकानि । न तु धर्मधर्मिभावद्योतकानि । ननु यदनीदृगतादृक् तद्ब्रह्मस्वरूपमिति पुरोक्तम् । सत्यं ज्ञानमनन्तभित्यनेनेदृक्त्वं तादृक्त्वं वोक्तप्रायमिति कथमेतल्लक्षणमुपपधत ? इति चेन्न। सत्यादिशब्दानां सत्यत्वादिधर्मबाधकत्वेऽपि निर्धर्मिके ब्रह्मणि धर्मान्तराभावात्तत्र भासमानानां धर्माणामवास्तवत्वेनाभ्युपेयतया तद्धर्मवैशिष्टयेनाभानात् धर्भवैशिष्टथरूपेदृक्तादृत्तवयोर्ब्रह्मण्यभावेन तथोक्तिरित्यविरोधः ॥ २८ ॥

 पूर्वाचार्यवाक्यमनुसृत्य सत्यत्वनिरूपणेन ब्रह्मणः सत्यत्वमुपपादयति, सत्यत्वमिति ।

सत्यत्वं बाधराहित्यं जगद्बाधैकसाक्षिणः ।।
बाधः किंसाक्षिको ? ब्रूहि न त्वसाक्षिक इष्यते ॥ २९॥

 सत्यत्वं नाम बाधराहित्यम् । त्रैकालिकप्रतिरोधविरहितत्वं बाधराहित्यम् । यस्य लक्षणं येन दूष्यते स तस्य बाधः । विकारराहित्यं सत्यत्वम् । "सत्यमबाध्यं बाध्यं मिथ्येति तद्विवेक” इति पूर्वाचार्याः । जगद्बाधैकसाक्षिणः जगतः स्थूलसूक्ष्मादिशरीरलक्षणस्य बाधोऽसत्यत्वं सुषुप्तिसमाथ्योरविद्यमानत्वात् । तस्यैकोऽद्वितीयः साक्षी द्रष्टाऽत्मा तस्य बाधो नाशः किंसाक्षिकः ? ब्रूहि । न कोऽपि