पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/११५

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
८९
कल्याणपीयूषव्याख्यासमेता

साक्षी विद्यत इति भावः । साक्षिणोऽविद्यमानत्वेऽप्यात्मनो बाधः किं न स्यादित्याशंकायामाह । नेति । असांक्षिकः साक्षिरहितो बाधो नेष्यते नाङ्गीक्रियते । जगतो विकारात्मकत्वं साक्षिणाऽनुभूयते । न तथाऽत्मनो विकारस्य द्रष्टाऽन्योस्ति।आत्माऽतः सत्य इति भावः॥२९॥
 बाधराहित्यमुदाहरति, अपनीतेष्वति ।

अपनीतेषु मूर्तेषु ह्यमूर्त शिष्यते वियत् ।
शक्येषु बाधितेष्वन्ते शिष्यते यत्तदेव तत् ॥ ३० ॥

 यथा गृहादिभ्यो मूर्तेषु मूर्तद्रव्याणि परिच्छिन्नपरिमाणवस्तूनि पृथिव्यप्तेजोवायवः । तेष्वपनीतेषु बुद्ध्याः निस्सारितेषु सत्सु वियदेव शिष्यते । तथैव प्रतीयमानेषु शक्येष्वपसरणसाध्येषु वस्तुषु बाधितेषु नेति नेतीति श्रुतिपर्यालोचनेनापनीतेष्वन्ते यत्किञ्चित् सन्मात्रं शिष्यते तत्साक्षिरूपं वस्तु। तदात्म्यैव । “स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते ” (बृ. ३.९.२६; ४.२.४) इति श्रुतेः ॥ ३० ॥

 प्रतीयमानेषु सर्ववस्तुष्वपनीतेषु न किञ्चिदप्यवशिष्यत इत्यत आह, सर्वबाध इति ।

सर्वबाधे न किञ्चिच्चेद्यन्न किञ्चित्तदेव तत्।
भाषा एवात्र भिद्यन्ते निर्बाधं तावदस्ति हि ॥ ३१ ॥

 सर्वबाधे जगति प्रतीयमानानां सर्ववस्तूनामपसारणेन मिथ्यात्वे निश्चिते सति किञ्चिदपि नावशिष्यत इत्युच्यते चेत् किञ्चिदपि न विद्यत इति यत् सर्वाभावावभासकं तदेव ज्ञानात्मकं तत् ब्रह्म । अत्र आत्मविषये भाषा आत्मबोधकशब्दा एव भिद्यन्ते । तत् ज्ञानं तु निर्बाधं बाधाविवुरं तावदस्ति नित्यत्वेन प्रकाशते हि ॥ ३१ ॥

 आत्मनो निर्बाधत्वं श्रुत्यारूढं करोति, अत इंति ।

12