पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/११६

पुटमेतत् सुपुष्टितम्
९०
[पञ्चकोशविवेक
पञ्चदशी

अत एव श्रुतिर्बाध्यं बाधित्वा शेषयत्यदः ।
स एष नेति नेत्यात्मेत्यतद्व्यावृत्तिरूपतः ॥ ३२॥

 यतो निर्बाधस्तावदस्त्यात्माऽत एव स एष उक्तरीत्याऽबाध्यतया विद्य मानोऽयमात्मेत्येतद्व्यावृत्तिरूपतोऽनात्मवस्तुनो व्यावृत्तिर्निराकरणं तदेव रूपं द्वारं तस्माद्वाध्यं यद्यन्निराकरणयोग्यं परिदृश्यमानं वस्तुजातं तत्तत्समस्तं बाधित्वा आत्मनोऽपसार्य अदोऽनिवार्यमात्मवस्तु श्रुतिः “नेति नेतीति” शेषयत्यवशेष यति “स एष नेति नेती”ति(बृ.३.९.२३) न ह्येतस्माद्ब्रह्मणो व्यतिरिक्तमस्ति न पुनः स्वयमेव नास्तीत्यनात्मतया सर्वप्रपञ्चे निवारिते सत्यनिवार्यत्वेनात्मैवावशि- ष्यत इति भावः ॥ ३२ ॥

 बाध्याबाध्ये वस्तुनी प्रदर्शयति, इदमिति ।

इदं रूपन्तु यद्यावत्तत्त्यक्तुं शक्यतेऽखिलम् ।
अशक्योऽह्यनिदंरूपः स आत्मा बाधवर्जितः ॥ ३३ ॥

 इदं रूपमिदमिति प्रत्यक्षेण सन्निहितं देहादि यद्यावद्विद्यते वस्तुजातं तत्तदखिलं नेति नेतीति हस्तविक्षेपेणेव बुद्ध्या त्यक्तुं शक्यते । योऽनिदंरूपः प्रत्यत्त्वेनेदन्तयाऽनवगम्यः प्रत्यक्स्वरूपः स अशक्योऽनिवार्यो बाधवर्जितः त्रैकालिकबाधविधुरः स साक्षी आत्मा भवति । इदन्तयाऽनिवार्यं सर्वं बाध्यन् । तद्भिन्नमबाध्यमनिवार्यतया परिशिष्टं यद्वस्तु विद्यते तदात्मा भवतीति भावः ॥३३॥

 एवमात्मनो बाधराहित्यात्मकसत्यत्वं सुसंपादितंम् । संप्रति तस्य ज्ञान त्वमुपपादितं स्मारयति, सिद्धमिति ।

सिद्धं ब्रह्मणि सत्यत्वं ज्ञानत्वं तु पुरेरितम् ।
स्वयमेवानुभूतित्वादित्यादिवचनैः स्फुटम् ॥ ३४ ॥

 स्पष्टोऽर्थः। पुरा ३.१३ श्लोके स्फुटम्। आदिशब्देन "इयमात्मा परानन्द” (१. ८) इत्यादीनि गृह्यन्ते ॥ ३४ ॥