पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/११७

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
९१
कल्याणपीयूषव्याख्यासमेता

आत्मनोऽनन्तत्वविचारः।

 अनन्तरमनन्तत्वं समर्धयति, नेति ।

न व्यापित्वाद्देशतोऽन्तो नित्यत्वान्नापि कालतः।
न वस्तुतोऽपि सार्वात्म्यादानन्त्यं ब्रह्मणि त्रिधा ।।३५।

 ब्रह्मणि त्रिविधमानन्त्यं विद्यते । सहेतुकं तद्विवृणोति, नेति । देशतों ऽन्तो न; कुतः ? व्यापित्वात् । सर्वदेशव्यापित्वात् ।कालतोऽन्तो न; नित्यत्वात्। सत्यत्वेन त्रिकालाबाध्यत्वात् । वस्तुतोऽप्यन्तो न; सार्वात्म्यात् । सर्वमात्मा स्वरूपं यस्य तस्य भावात् । “इदं सर्वं पुरा सृष्टेरेकमेवाद्वितीय ” (२.१९.) मित्यादिवचनैः स्पष्टमुक्तम् । बृहि धातोर्देशकालवस्त्वपरिच्छिन्नतया सर्वव्यापित्वार्थत्वादानन्त्यमवश्यं सिध्यति । ‘ब्रह्मैवेदं विश्वं” (मुंड-२.२.११) “ब्रह्मेदं सर्वं" (बृ.२.५.६) इत्यादिश्रुतिभिर्ब्रह्मणस्त्रिविधमानन्त्यं सुसंपन्नमिति भावः।अस्मिन् श्लोके परमतमनुसृत्य देशकालादीनां वस्तुत्वमभ्युपगम्य तत्तत्कृतपरिच्छेदभावोऽत्र निरस्यत इति ज्ञेयम् ॥३५॥

 वस्तुतो देशकालादीनामवस्तुत्वात्तत्कृतपरिच्छेदोऽप्यविद्यमान एवेत्याह, देशेति ।

देशकालान्यवस्तूनां कल्पितत्वाच्च मायया ।
न देशादिकृतोऽन्तोऽस्ति ब्रह्मानन्त्यं स्फुटं ततः ॥३६॥

 मायया “ सत्तत्वमाश्रिता शक्तिः कल्पयेत्सति विक्रिया” (२.५९.) इत्युक्तरीत्या । स्पष्टमन्यत् ॥ ३६ ॥

ब्रह्मणो जीवेश्वरत्वमुपाधिकल्पितम् ।

 ननु देशादिकृतपरिच्छेदो ब्रह्मणो माऽस्तु; जीवेश्वरकृतः किं न स्यादि- त्यत आह, सत्यमिति ।

सत्यं ज्ञानमनन्तं यद्ब्रह्म तद्वस्तु तस्य तत् ।
ईश्वरत्वं च जीवत्वमुपाधिद्वयकल्पितम् ॥ ३७ ॥