पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/११८

पुटमेतत् सुपुष्टितम्
९२
[पञ्चकोशविवेक
पञ्चदशी

 सत्यं ज्ञानमनन्तमिति लक्षणेन प्रतिपादितं यद्ब्रह्म तद्वस्तु तदेव परमार्थम् । तस्य तदीश्वरत्वं जीवत्वमिति पदयोजना । स्पष्टमन्यत् । जीवत्वेश्वरत्वयोरपि निस्तत्त्वोपाधिकल्पितत्त्वात्तदाश्रययोजीवेश्वरयोरपि निस्तत्वमेवेति न तत्कृतपरिच्छेद संभव इति भावः ॥ ३७ ॥

 तत्रेश्वरोपाधिभूतां शक्तिं प्रतिपादयति, शक्तिरिति ।

शक्तिरस्तैश्वरी काचित्सर्ववस्तुनियामिका ।
आनन्दमयमारभ्य गूढ़ा सर्वेषु वस्तुषु ॥ ३८ ॥

 स्पष्टा पदयोजना । सर्ववस्तुनियमनेन साऽनुमेयेति भावः । शुद्धसत्त्वप्रधानाया मायाया ईश्वरोपाधित्वं १-१६ श्लोके, तस्याः स्वरूपं ४७-५९ श्लोकेषु च विवृतम् ॥ ३८ ॥

 शक्त्यनुमापकसर्ववस्तुनियमनमासिद्धमित्याशंक्याह, वस्त्विति ।

वस्तुधर्मा नियम्येरन् शक्तया नैव यदा तदा ।
अन्योन्यधर्मसांकर्याद्विप्लवेत जगत् खलु ॥ ३९ ॥

 यदा कयाचिच्छक्त्या वस्तुधर्मा पृथिव्यादीनां काठिन्यादिधर्मा न निय म्येरन् न व्यवस्थाप्येरन् तदा अन्योन्यधर्मसांकर्यात् काठिन्याद्यन्योन्यधर्माणामन्यत्राप्यव्यवस्थया जगद्विप्लवते अनियतत्वं प्राप्नुयात् । अमेयकल्पनाविचित्रस्यास्य जगतो नियमाभावे जले गन्धः तेजसि रसो वायौ रूपमित्येवंरूपो विप्लवः प्रसज्येत । तदा घटादीनामन्यवस्तुप्रकाशकत्वं दीपस्य वस्त्वन्तराप्रकाशकत्वं च प्रसज्येत ।अतस्ततत्पदार्थेषु तत्तधर्मनियामिका काचन शक्तिरभ्युपेया । एवं च धर्मनियमनरूपो हेतुर्नासिद्धः। सिद्धायां शक्तौ सर्वज्ञस्यैव सर्वनियमनशक्तिमत्वसंभवात् ।सा सर्वज्ञस्यैव भवितुमर्हति नान्यस्य । तथा चाह श्रुतिः "एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय" (बृ.४.४. २२) “अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय (छां. ३•४.१) ॥ ३९ ॥