जडत्वभावायाः शक्तेर्जगन्नियमने कारणमाह चिदिति ॥
चिच्छायावेशतः शक्तिश्चेतनेव विभाति सा । |
सा शक्तिः चिच्छायावेशतः चित्प्रतिबिम्बप्रवेशतः “चिदानन्दमयब्रह्मप्रति बिम्बसमन्वित"त्वादित्यर्थः । चेतनेव चेतनत्वमापन्नेव विभाति । तच्छक्त्युपाधिसंयोगात् चित्प्रतिबिम्बयुक्ता शक्तिरेवोपाधिः। तेन संयोगात् व्रह्मैवेश्वरतां स्रष्टृत्वादिधर्मवत्तां व्रजेत् ॥ ४० ॥
जीवोपाधिं दर्शयति, कोशेति ॥
कोशोपाधिविवक्षायां याति ब्रह्मैव जीवताम् । |
कोशोपाधिविवक्षायां अन्नमयादिकोशानां विचारणावसरे ब्रझैव जीवतां याति। कथमेकस्य विरुद्धधर्माक्रान्तत्वमित्यत आह, पितेति । यथा पुत्रपौत्रौ प्रतितदपेक्षया एकः एका व्यक्तिः पिता पितामहश्च भवति । तथैव ब्रह्मैव शक्तयुपाधिनेश्वरो भवति । कोशोपाधिना जीवो भवति पुत्रपौत्राभावे न पिता न पितामहः। तथैव शक्तयुपाध्यभावे नेश्वरः कोशोपाध्यभावे न जीव इति भावः ॥४१॥
ब्रह्मणि जीवेश्वरत्वयोस्सापेक्षत्वं विशदयति, पुत्रेति ।
पुत्रादेरविवक्षायां न पिता न पितामहः। |
स्पष्टोऽर्थः । एवं जीवेश्वरव्यवहारभेदः। न वस्तुतो ब्रह्मणो जीवत्वमीश्वरत्वं वाऽस्तीति भावः ॥ ४२ ॥
एवं कोशपञ्चकविवेचनाफल प्रस्तौति य इति ॥
य एवं ब्रह्म वेदैष ब्रह्मैव भवति स्वयम् । |