पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१२

पुटमेतत् सुपुष्टितम्

स्येव तद्विवेकस्य च शास्त्रयुक्तिभ्यां निरूपणे सिद्धेप्यनुभवेनापि निरूपणार्थं दीपपंचकस्यावश्यकतया पृथक् तत्प्रतिज्ञाया अनपेक्षणात् । न चैवमानन्दपंचकम् । तद्विनाऽपि शास्त्रत्वसंपत्तेस्संभवे नैतच्छास्त्रान्तर्भावस्य सर्वात्मनाऽसंभवात् । पृथग्भूतोऽप्ययं ग्रन्थः ब्रह्मज्ञानफलप्रदर्शनपरतया मन्दमध्यमाधिकारिणामप्येतद्गन्थपरिशीलने प्रवृत्तिसंपादनाय तत्त्वविवेके संयोजत इपि प्रतिभाति। एवं च ब्रह्मानन्दस्य पृथग्ग्रन्थत्वमस्तु । एतद्ग्रन्थघटकत्वं वाऽस्तु । सर्वद्वैतग्रन्थजन्यज्ञानफलप्रदर्शकतयाऽत्र योजनं युज्यत एव । केचित्तु ब्रह्मानन्दग्रन्थस्यान्यकर्तृकत्वमभिप्रयन्ति। तन्न सम्यक् । ब्रह्मानन्दांतर्गतविद्यानन्दशेषे “उभये तृप्तिदीपे हि सम्यगस्माभिरीरितमि"ति वचनेन तृप्तिदीपकर्तृकत्वस्य स्फुटं प्रतीतेः । न च दीपपंचकमानन्दपंचकं चैककर्तृकमस्तु । विवेकपंचकं तु भिन्नकर्तृकमिति शंक्यम् । तथा सति दीपपंचकप्रारंभे प्रतिज्ञाया अवश्यकर्तव्यत्वप्रसंगात् । यद्यपि प्रत्यक्तत्त्वविवेकेनैव सर्वोऽपि शास्त्रार्थः प्रतिपादितः । तथाप्यवशिष्टस्य तद्विवरणरूपतया तद्ग्रंथघटकत्वमुपपद्यत एव । यथा ब्रह्मसूत्रसारस्य चतुस्सूत्र्या प्रतिपादनेऽपि तद्विवरण तयाऽवशिष्टभागस्य तच्छास्त्रघटकत्वम् । यथा वा भगवद्गीतायां द्वितीयाध्याये “अशोचानन्वशोचस्त्व”मित्यारभ्य “एषा तेऽभिहिता सांख्ये बुद्धि"रित्येतत्पर्यन्तेन ग्रन्थेन गीताशास्त्रार्थस्य सर्वस्य संक्षेपेणाभिहितत्वेऽप्यवशिष्टस्य सर्वस्य तद्विवरणरूपतया गीताशास्त्रघटकत्वम् । इति ध्येयम् ।

 एतच्छास्त्रस्य ब्रह्मात्मैक्यं विषयः । तत् ज्ञानान्मूलाविद्यानिवृत्तौ ब्रह्मरूपेणावस्थानं प्रयोजनम् । साधनचतुष्टयसंपन्नोऽधिकारी संबंधश्च यथायथमूहनीयः । अत्रात्मनो ब्रह्मरूपत्वसंपत्तये सत्यज्ञानानन्दरूपस्य ब्रह्मलक्षणस्य प्रत्यगात्मनि सत्त्वं प्रथमतः प्रतिपाद्य तदेवैक्यं तत्त्वमस्यादिमहावाक्यैर्बोधितमित्युपसंहृतं प्रकरणान्ते प्रत्यगात्मनस्सत्यज्ञानानन्दरूपत्वमसद्भूतेभ्यो भूतभौतिकपदार्थेभ्यो विविच्य प्रत्यगात्मप्रदर्शनमन्तरा दुर्ज्ञेयमित्याशयेन भूतभौतिकसृष्टिं तन्निधानभूत-जीवेश्वरसृष्टिं च प्रादर्शयत् । तादृशसृष्टेर्निदानतया सत्त्वरजस्तमोगुणमयी सदसद्विलक्षणतयाऽनिर्वचनीया प्रकृतिरित्यभिधाना काचन शक्तिरभ्युपेयते । सा च सत्त्वप्रथाना चेतनसृष्टिं तमःप्रधाना भूतभौतिकसृष्टिं चाकरोत् । सा च शुद्धसत्त्वप्रधाना मायाभिधाना ईशोपाधितया चेतनस्येशत्वमकल्पयत् । सति मालिन्येऽविधाभिधाना