पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१२३

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
९७
कल्याणपीयूषव्याख्यासमेता

 अमी समस्ताः खमाकाशं वाय्वग्निजलोंर्व्योषध्वन्नदेहाः जलं उर्वी ओषधयश्चेति छेदः। क्रमात्तस्मात्तच्छब्देन परामृष्टात् सत्यं ज्ञानमनन्तमिति लक्षणलक्षितात् ब्रह्मणः संभूताः । उत्पन्ना: । ननु शुदूस्य ब्रह्मणः कथं जगत्कारणत्वमुच्यत इत्याशंकापरिहारायैतस्मादात्मन इति समानाधिकरणं विशेषणमुक्तम् । एतस्मादितीश्वरतापन्नं ब्रह्म उच्यते । तत्सामानाधिकरण्येनाध्यासेन तत्तादात्म्यापन्नमिहकारणमिति विवक्षितोऽर्थः। आत्मन इत्युक्तिस्तु सर्वैरात्मत्वेनानुभूयमानो जीवोऽपि तदनतिरिक्त इति सूचितः॥४॥

 ननु बहूवृचाः संकल्पमात्रेण जगत्स्रष्टृवं प्रतिपादयन्ति । अत्र तु कार्य कारणक्रमेण सृष्टिरुक्ता । तेनेयं सृष्टिस्तद्विरुद्धेति भातीत्याशंकां तैत्तिरीयश्रुतावृत्तरवाक्यार्थविवरणेन परिहरति, बह्विति ।


बहु स्यामेवातः प्रजायेयेति कामतः ।
तपस्तप्त्वाऽसृजत्सर्वं जगदित्याह तित्तिरिः ॥ ५॥

 अहमेवाद्वितीयः सहायान्तरमनपेक्ष्य वह्ननेकधा स्याम् अतो बहुभवनार्थं प्रजायेय प्रकर्षेण पूर्वस्थितेराधिक्येनोत्पद्येय इत्येवं रूपतः कामतः तपस्तप्त्वा सम्यगालोच्य “यस्य ज्ञानमयं तप:” इति (मुं.१.१.९) श्रुतेः प्राणिकर्मनिमितानुरूपमिदं सर्वं जगदसृजन्नामरूपाभ्यां व्याकरोत्। वस्त्वन्तरसह।यमन्तरेणैव मायावोव स्वयमेव बहुधा भासत इति स्यामित्युत्तमपुरुषार्थः । अव्याकृततया स्थितस्य स्वस्य नामरूपाभ्यां व्याकरणमेत्र सृष्टिरित्यभिधीयते । “नामरूपे व्याकरवाणी"ति(छां.६.३.२.) श्रुतेः । इति तित्तिरिः तन्नामको मंत्रद्रष्टा ऋषिराह । अनेनास्यामपि श्रुतौ संकल्पपूर्विकैव सृष्टिरुक्तेति न पूर्वोक्तबह्वृचश्रुतिविरोधः। संकल्पानन्तरं जायमाना सृष्टिराकाशादिक्रमेणेति पूर्ववाक्यतात्पर्यमिति श्रुत्योर्विरोधो नाशंकनीय इति तात्पर्यम् ॥ ५ ॥

 ननु श्वेताश्वतरे मायिनः स्रष्टृत्वमुपक्रान्तम्; बह्वृचे आत्मशब्दोपादा नात्तत्प्रतिपाद्यस्य माय्यभिन्नतया तस्यैव स्रष्टृत्वं प्रतीयते; तैत्तिरीये एतस्मादात्मन इत्युक्त्या तस्यैव स्रष्टृत्वं स्फुटं प्रतीयते; तत्र तस्मादिति सामानाधिकरण्येन ब्रह्माध्यासस्यावश्यकत्वेऽपि शुद्धे तद्ध्यासो न प्रसज्यते; तथा च शुद्धस्य

13