पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१२५

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
९९
कल्याणपीयूषव्याख्यासमेता

इत्याथर्वणिकी मुंडकश्रुतिराह। एतेनेश्वरे श्रुतजगत्कारणत्वस्यात्राक्षरे कूटस्थे वर्णनाज्जीवेश्वराध्यासो जीवब्रह्मणोरध्यास इति चास्यां प्रतीयत इति तात्पर्यम् ॥७॥

 एवमुक्तप्रकारेण मायोपाधिकस्येश्वरस्य जगत्कारणत्वमुक्तम्। तस्य तत्वोपपादनाय मायास्वरूपं विवृणोति, जगदिति ।

जगदव्याकृतं पूर्वमासीद्याक्रियताधुना ।
दृश्याभ्यां नामरूपाभ्यां विराडादिषु ते स्फुटे ॥ ८ ॥
विराण्मनुर्नरा गाव: खराक्ष्वाजादयस्तथा ।
पिपीलिकावधि द्वंद्वमिति वाजसनेयिनः ॥ ९॥

 पूर्वं सृष्टेः प्रागिदं जगदव्याकृतमव्यक्तनामरूपात्मकमासीत् । अधुना सृष्ट्यनन्तरं दृश्याभ्यां व्यक्ताभ्यां नामरूपाभ्यां व्याक्रियत स्पष्टीकृतम् । “ततो वै सदजायत ” “ तद्धेदं तर्ह्यव्याकृतमासीन्नामरूपाभ्यामेव व्याक्रियत (बृ.१.४.७.)इति श्रुतेः । ते नामरूपे विराडादिषु स्फुटे । ब्रह्मांडकात्मकस्थूलदेहाभिमानवान् विराट् । विराडादीन्विवृणोति । विराडिति । द्वंद्वं स्त्रीपुरुषयोः । स्पष्टमन्यत् ॥८-९॥

 ननु जीवस्यापि ब्रह्मेश्वराभ्यां परस्पराध्याससाधनाय मुंडके श्रूयमाणा क्षरशब्दस्य कूटस्थोऽर्थ इति वर्णितम् । तत्राक्षरशब्देन ब्रह्मेश्वरो वा गृह्यताम् । किंच भवदभीष्टाध्याससाधनाय कूटस्थपरत उच्यत इत्याशंक्याह, कृत्वेति ।

कृत्वा रूपान्तरं जैवं देहे प्राविशदीश्वरः।
इति ताः श्रुतयः प्राहुर्जीवत्वं प्राणधारणात् ॥ १० ॥

 बहुभवनार्थमीक्षितेश्वरः सर्वसमर्यो रूपान्तरं स्वस्यैवाऽन्यद्रूपं विकारभूतं जैवं जीवसंबंधि कृत्वा देहे प्राविशत् प्राविशदिव भाति । इति ताः पूर्वोदाहृताः “तत्सृष्ट्वा तदेवानुप्राविशन्” (तै- २.६) ” अनेनैव जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’ (छां ६.३.२) इत्यादयः श्रुतयः प्राहुः । प्राणधारणात् प्राणानां स्वामित्वात् । प्रेरकत्वाज्जीवत्वमिति प्राहुः । जीवधातोः प्राणधारणमर्थ । इत्यन्यत्र स्पष्टम् । रूपान्तरशब्देन जीवेश्वरयोरभेदोऽभिधीयते । एवं च शुद्धत्वं