पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१२६

पुटमेतत् सुपुष्टितम्
१००
[द्वैतविवेक
पञ्चदशी

स्रष्टृत्वं प्रवेशनकर्तृत्वं चैकस्यैव मिलित्वा सर्वाः श्रुतयो बोधयन्तीति परस्पराध्यासमन्तरा श्रुतिव्यवहारोऽनुपपन्न एव स्यादिति समुदितं तात्पर्यम् ॥ १० ॥

 एवं सिद्धं ब्रह्मेश्वरविलक्षणं जीवस्वरूपं दर्शयति, चैतन्यमिति ।

चैतन्यं यदधिष्ठानं लिंगदेहश्च यः पुनः।
चिच्छाया लिंगदेहस्था तत्संघो जीव उच्यते ॥ ११ ॥

 लिंगदेहकल्पनायां यदधिष्ठानमाधारभूतं चैतन्यं तत्र कल्पितो यो लिंग देहः बुद्धिकर्मेद्रियप्राणपंचकैर्मनसा घिया संयुतः । लिंगदेहस्था चिच्छाया चिदाभासः तत्संघः तेषां त्रयाणां समूह्नो जीव इत्युच्यते । अनेन शुद्धचिच्चिदाभासलिंगदेहसमुदायो जीव इति फलितम् ॥ ११ ॥

 नन्वेवमनुप्रवेशोक्त्या जीवेस्येंश्वररूपत्वे तस्येश्वराज्ञावृत्तित्वदुःखित्वादि कथमुपपद्यत इत्याशंक्याह, माहेश्वरीति ।

माहेश्वरीतु माया या तस्या निर्माणशक्तिवत् ।
विद्यते मोहशक्तिश्च तं जीवं मोहयत्यसौ ॥ १२ ॥

 माहेश्वरी महेश्वरसंबंधिनी त्रिगुणात्मिका चिच्छायोपेता या माया विद्यते तस्या निर्माणशक्तिवदानन्दमयादारभ्य समस्तजगतो निर्माणसमर्थनशक्तिरिव मोहशक्तिश्च चिदानन्दस्वरूपविषयका ज्ञानशक्तिश्च विद्यते । असौ मोहशक्तिर्जीवं मोहयति स्वस्वरूपज्ञानविरहितं करोति। “अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः” इति स्मृतेः ॥ १२ ॥

 तत्फलमाह, मोहादिति ।

मोहादनीशतां प्राप्य मग्नो वपुषि शोचति।
ईशसृष्टमिदं द्वैतं सर्वमुक्तं समासतः ॥ १३ ॥

 एवं मोहमापन्नो जीवः मोहादनीशतामोशभिन्नतां उपलक्षणमिदं असंग चिद्भिन्नतां च प्राप्य स्वस्येश्वरत्वमसंगचिद्रूपत्वं चाज्ञात्वेति यावत् वपुषि शरीरस्पंजरे