पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१२७

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
१०१
कल्याणपीयूषव्याख्यासमेता

मग्नोऽहमिदं ममेदमिति तादात्म्याद्यभिमानाविष्टः शोचति दुःखपरंपरामनुभवति । सष्टमन्यत् ॥ १४ ॥

जीवसृष्टद्वैतकथनम् ।

 एवमीश्वरसृष्टिं संक्षेपतो निरूप्य प्रमाणपुरस्सरं जीवसृष्टिं विवृणोति, सप्तेति ।

सप्तान्नब्राह्मणे द्वैतं जीवसृष्टं प्रपंचितम् ।
अन्नानि सप्त ज्ञानेन कर्मणाऽजनयत्पिता ॥ १४ ॥

 "यत्सप्तान्नानि मेधया तपसा जनयत्पिते"त्यारब्धे (बृ.१.५.२.) वृहदारण्यकान्तर्गतसप्तान्नब्राह्मणे जीवसृष्टं “जाया मे स्यादि"त्यादिकामसाधनभूताभ्यां ज्ञानकर्मभ्यां प्रयुक्तेन जीवेनेश्वरस्पृष्टभोगाजातस्य सप्तधा परिकल्पितं द्वैत "महमुपासकोऽन्य उपास्यो देवोऽन्य" इत्यादिभेदबुद्धिविशिष्टं प्रकरणं प्रपंचितम् । एतेन तत्सृष्टेर्जीवस्य तत्स्रष्टृत्वस्य च प्रमितत्वमुक्तम् । प्रपंचनप्रकारमाह,अन्नानीति । पिता पाळको जीवो ज्ञानेन स्वबुद्धिकौशलेन कर्मणा अदृष्टद्वारा सप्तान्नान्यजनयत् । जीवस्य सम्यक् पर्यालोचनेन सर्वलोकभोगानुकूलजगदुत्पादनेन सर्वलोकपालकत्वात्तस्यैव पितृत्वे निर्देश इति तात्पर्यम् ॥ १४ ॥

 सप्तान्नोत्पादकत्वस्य ज्ञानपूर्वकत्वं प्रतिनियतविभागप्रदर्शनपूर्वकं विशद- यति, मर्त्येति ।

मर्त्यान्नमेकं देवान्ने द्वे पश्वन्नं चतुर्धकम् ।
अन्यत्त्रितयमात्मार्थमन्नानां विनियोजनम् ॥ १५ ॥

 तेष्वेकं मर्त्यान्नं तदधीनमन्नं सर्वमर्त्यसाधारणमन्नं। देवान्ने द्वे । चतुर्घकं पश्वन्नं पश्वधीनम् । सर्वमविशेषेण पश्यताति पशुः। अन्यदवशिष्टं त्रितयमात्मार्थे आत्मभोगाय कल्पितम् । एवमन्नानां सप्तानां विनियोजनं विनियोग आत्मार्थं सप्तन्नब्राह्मणेनोक्तः । अत्र बृहदारण्यक (१.५.२.) सप्तान्नब्राह्मणमवलोक्यताम्। इयं श्रुतिर्व्यवहारसिद्धं जीवभेदमादाय प्रवृत्ता । पश्वादितः पृथक्कृत्यात्मनोंशविभ- जनप्रतिपादनात् ॥ १५ ॥