पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१३

पुटमेतत् सुपुष्टितम्

जीवोपाधिभूता चेतनस्य जीवत्वमकल्पयत् । मायोपाधिक ईश्वरस्तमःप्रधानां प्रकृतिमुपादानीकृत्य स्वयं निमित्तोभूय भूतसृष्टिं जीवस्य भोग्यभोगायतनसिद्धये भूतपंचीकरणपूर्वकं भौतिकसृष्टिं च व्यतनोत् । सर्वस्यापि सृष्टस्य प्रपंचस्य मायिकतयैंद्रजालिकमायाकल्पितपदार्थजातस्येव सति मिथ्यात्वनिश्चये तद्विविक्ततयानुभवगोचरः प्रत्यगात्मा सत्यज्ञानानन्दरूप इत्यवगन्तुं शक्यते । एवमवगतः कूटस्थः ब्रह्मलक्षणलक्षिततया ब्रह्मैव भवितुमर्हतीति ब्रह्मात्मैक्यं सिद्ध्यतीति सिद्धान्तं बोधयितुं प्रत्यक्तत्वविवेकाख्यप्रकरणमारब्धम् । एतादृशस्य विवेकस्य भूतस्वरूपनिर्णयपूर्वकं तद्वैलक्षण्यप्रदर्शनमन्तरा दुर्लभमिति तत्प्रदर्शनाय भूतानां तदुपादानभूतमायायाश्च गुणवैषम्येण परस्परविवेकं तेषु सर्वेषु सत्तानुवृत्त्या सद्रूपस्य ब्रह्मणोऽवश्याभ्युपेयत्वं तस्य च सर्ववस्तुवैलक्षण्यं च मायाभूतभौतिकप्रपंचाद्विविक्तं ब्रह्म बोधयन् ब्रह्मलक्षणाक्रान्ततया प्रत्यगात्मनस्तदैक्यमबोधयन्महाभूतविवेकाख्येन प्रकरणेन । यथा च पंचभूतविवेकेन मायिकादीश्वरान्निष्कृष्टं ब्रह्मतत्त्वं विज्ञातुं शक्यते तथैव पंचकोशविवेकेन तत्तादात्म्याध्यासापन्नजीवान्निष्कृष्टं प्रत्यक्तत्वं विज्ञातुं शक्यत इत्याशयेन पंचकोशविवेकाख्यं प्रकरणं व्यरचयन् । एवं सत्यपि विवेके मिथ्याभूतस्य प्रपंचस्य शरीरसद्भावपर्यन्तं तत्तद्भासकेन्द्रियाणां मिथ्याभूतानामपि सद्भावात्तत्तत्पदार्थभानं दुर्वारमिति जीवन्मुक्तब्यवहारो निरालंबन एव स्यादित्याशङ्क्य तद्भानं न मुक्तिप्रतिबंधकम् । तद्भानेऽपि तस्य मिथ्यात्वनिश्चयेन बंधकत्वं नास्ति । वस्तुत ईशसृष्टस्य प्रपंचस्य साक्षाद्बंधहेतुत्वमेव नास्ति। परं त्वीशसृष्टप्रपंचं भोग्याकारतां मनसा प्रापयज्जीवः । तथा च जीवसृष्टस्य मनोमयप्रपंचस्यैव स्वप्नप्रपंचवद्बन्धहेतुत्वम् । अतो मनोमयप्रपंचस्यैव सर्वथा निवृतिरपेक्ष्यते मुक्तिसिद्धये । प्रत्यग्ब्रह्मात्मज्ञाने जीवोपाधिभूताज्ञाननिवृतौ तद्धेतुकमनसो निवृत्या सर्वथा मनोमयप्रपंचो निवर्तते । तन्निवृत्तिरेवापेक्ष्यते मुक्तिसिद्धये ईशसृष्टस्य न निवृत्तिरपेक्ष्यते । किं तु मिथ्यात्वबुद्धिमात्रमिति बोधयितुमीशसृष्टं जीवसृष्टं च द्वैतं द्वेधा विभज्य प्रदर्शितम् । ईशसृष्टप्रपंचमन्तरा तदाकाराकारितमनोमयसृष्टेरसंभवेन बंधस्यैव दुरुपपादतया तदाकारसमर्पकतया ईशसृष्टं बाह्यं द्वैतमभ्युपेयमेव । प्रमाणबलात्मतीयमानस्य तस्य दुर्निवारत्वाच्च। एतेन बंधे बाह्यद्वैतस्यानुपयोगे बाह्यशून्यवादप्रसंग इति परास्तम्। एतदंशबोधनायैव द्वैतविवेकाख्यप्रकरणमारब्धम् ।

II