पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१३०

पुटमेतत् सुपुष्टितम्
१०४
[द्वैतविवेक
पञ्चदशी

 एवं मण्यर्थिनः प्रियः प्रीतिविषय अप्रियो द्वेषविषय उपेक्ष्यः उपेक्षा विषयश्चेति मणिगाः एकमेव मणि गता आकारास्त्रयः। प्रीतिविषयत्वं, द्वेषविषयत्वं, उपेक्षाविषयत्वम्, चेति भिन्नविषयतारूपा दृश्यन्ते । एते आकारा जीवैः सृष्टाः। प्राप्ताप्राप्तविवेकन्यायेन तत्तद्विषयतासृष्टिर्जीवस्येति तद्वैशिष्ट्येन मणिस्रष्टृत्वं जीवस्योक्तम् । जीवैरिति बहुवचनं तु विभिन्नविषयतानां यौगपद्येन सत्वोपपाद- नाय। ईशसृष्टं रूपं त्रिषु समानमित्याह, ईशेति । त्रिष्वाकारेषु ईशसृष्टं रूपं मणिरूपं साधारणं समानम् । एवं च तत्तद्विषयताविशिष्टमणिदृष्टौ जीवस्य- स्रष्टृत्वं विशेषेणांशे, ईशस्य तु विशेष्यांशे इति विवेकः ॥ २२ ॥

 पूर्वोदाहरणेन भोगाकाराणां त्रैविध्यमिव गम्यते, नत्वनन्तप्रकारत्व मित्याशयेन तत्र निर्दिष्टस्य प्रत्येकं बहुविधत्वमिति स्फोरणायैकस्य प्रीतिविषय त्वस्य बहुविधत्वं दर्शयति, भार्येति ।

भार्या स्नुषा ननान्दा च याता मातेत्यनेकधा।
प्रतियोगिधिया योषिद्भिद्यते न स्वरूपतः ॥ २३ ॥

 एका योषित् स्वस्य भार्या, स्वपितुः स्नुषा, स्वभार्यायाः ननान्दा भर्तृभगिनी, स्वसोदरभार्यायाः याता देवरपत्नी स्वपुत्रस्य मातेति संबंधभेदेनानेकधा व्यवह्रियमाणतया प्रतियोगिधिया प्रतियोगिभर्त्रादीनां विशिष्टबुद्ध्या भासमानया धिया निरूपिता सती तदनुरूपं भिद्यते न तु स्वरूपतः। विलक्षणप्रीतिविषय ताश्रयत्वेन संबंधभेदेन भिन्नतया ततन्निष्ठप्रीतीनां विलक्षणतया तत्तद्विषयतानां मेदेन तदाश्रयभेदः सिध्यति ॥ २३ ॥

 ननु तत्र ज्ञानभेद एव नाकारभेद इति जीवनिर्मितस्य कस्यापि विशेषस्यादर्शनादिति शंकते नन्विति ।

ननु ज्ञानानि भिद्यन्तामाकारस्तु न भिद्यते ।
योषिद्वपुष्यतिशयो न दृष्टो जीवनिर्मितः ॥ २४ ॥

 नन्विति प्रश्ने । ईश्वरसृष्टं वस्तुजातं जीवेन भोगार्धं बहुधेष्यत इत्युपरि- ष्टाद्भोग्याकस्स्य नानात्वमुक्तम् । योषिद्दृष्टान्ते तु प्रतियोगिधिया भार्या