अन्वयव्यतिरेकाभ्यां धीमयो जीवबंधकृत् । |
धीमयो मनोमय एव । “ असति बाधे सर्वं वाक्यं सावधारणमिति " न्यायाज्जीवबंधकृत् जीवस्य बंधहेतुत्वमन्वयव्यतिरेकाभ्यां ज्ञायते। तावेव विवृणोति, सतीति । अस्मिन् धीमये सति सुखदुःखे स्तः; तस्मिन्नसति द्वयं सुख दुःखे न स्तः ॥ ३२ ॥
ननु मनोमय एवेति कोऽसौ निर्बम्धः? बाह्येऽप्यन्वयव्यतिरेकदर्शनात् । बाह्यानुरोधेनैव मनोंमयस्य सृष्टेरित्याशंक्य बाह्येऽन्वयव्यतिरेकौ विघटति, असतीति ।
असत्यपि च बाह्यार्थे स्वप्नादौ बध्यते नरः । |
स्वप्नादौ बाह्यार्थेऽसत्यपि मरुमरीचिकादिष्विव नरो बध्यते । तत्र सुख दुःखे अनुभवति । एतेन व्यतिरेकस्य विघटनं प्रदर्शितं समाधिसुप्तिमूर्छासु समाधिः वशीकृतान्तःकरणत्वान्निवातदीपवन्निश्चला स्थिति ; सुप्तिः सुषुप्तिः, सवेंद्रियाणा- मन्तःकरणस्य च लयावस्था; मूर्छा चित्तस्य जडीभूतावस्था; तास्वस्मिन् बाह्यार्थे सत्यपि न बध्यते । एतेनान्वयस्य विघटनमुक्तम् । एवं च बंघस्य बाह्येनान्वय- व्यतिरेकयोरसंभवान्न बाह्यस्य बंधकत्वमिति तात्पर्यम् ॥ ३३ ॥
मनोमयप्रपंचस्य बंधकारणत्वमुक्त्वाऽन्वयव्यतिरेकावुदहरणपूर्वकं सार्धश्लोकेन स्पष्टयति, दूरेति ।
दूरदेशं गते पुत्रे जीवत्येवात्र तत्पिता । |
विप्रलंभकवाक्येन तव पुत्रो मृत इतेि वंचकस्य मिथ्यावाक्येन । स्पष्टमन्यत् । पुत्रस्य मृतत्वतदभावौ रोदनतदभावयोर्न कारणे, किंतु मृतत्वतद-