पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१३५

पुटमेतत् सुपुष्टितम्
प्रकरणम् ।]
१०९
कल्याणपीयूषव्याख्यासमेता

भावाकाराकारितवृत्ती। एवं च मानसिकसत्ताविष्टयोरेवकारणत्वमिति स्फुटमवगम्यते ॥३४॥

 एतावता फलितमाह, अत इति ।

अतः सर्वस्य जीवस्य बंधकृन्मानसं जगत् ॥ ३५॥

 मानसं मनःकल्पितमेव । स्पष्टमन्यत् । अत एवोक्तं “मन एव मनुष्याणां कारणं बंधमोक्षयो" रिति ॥ ३५ ॥

विज्ञानवादनिरासः ।

 एवं मानसस्येव बंधहेतुत्वे निर्णीयमाने बौद्धमतप्रवेशः स्यादित्याशंक्याह, विज्ञानेति ।

विज्ञानवादो बाह्यार्थवैयर्थ्यास्यादिहेति चेत् ।
न हृद्याकारमाधातुं बाह्यस्यापेक्षितत्वतः ॥ ३६ ॥

 इह “सर्वस्य जीवस्य बंधकृन्मानसं जगदि"ति सिद्धान्ते बाह्यार्थवैयर्थ्यात् बाह्यविषयस्य बंधेऽनपेक्षणात् त्वदुदितं सर्वं विज्ञानवाद एव स्यात् इति चेन्न । कारणमाह । नेति । हृदि अन्तःकरणे बाह्यबस्तुन आकारमाधातुं निक्षेप्तुमंतःकरणस्य बाह्यविषयाकाराकारितत्वाय बाह्यस्य विषयस्यापेक्षितत्त्वतः । तेन तस्य विद्यमानताऽवश्यकीति भावः । बाह्याकारमन्तराऽन्तःकरणस्य तदाकाराकारितत्त्वासंभवान्न केवलविज्ञानवादिनो वयमिति पूर्वपक्षपरिहारः ।

 विज्ञानवादस्त्वित्थम् । बौद्धानां मते बुद्ध एक एवाचार्यः । तस्योपदेशस्तु। "सर्वं क्षणिकं क्षणिकं, दुःखं दुःखं, स्वलक्षणं स्वलक्षणं, शून्यं शून्य" मिति । बौद्धपरिभाषायां सर्वे पदार्थाः क्षणिकाः। उत्पन्नस्य क्षणिकत्वेन द्वितीयक्षणे स्थित्यभावात् । अत एव ते क्षणा इत्युच्यन्ते सर्वो हि संसारो दुःखात्मक इति तद्धेयत्वमिच्छन्ति सर्वे द्रशनप्रदर्शकाः। मुमुक्षूणां तन्निवृत्युपाये प्रवृत्तेरुपपत्तेः । सर्वे पदार्थाः स्वीयेनासाधारणरूपेण लक्ष्यन्ते । न तेषां साधारणं लक्षणम् । तेषां सदृशं । वस्त्वन्यदस्तीत्यस्यानिर्वचनीयत्वात् । एवं सति शून्यरूपा इति भावनीयाः ॥