पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१३७

पुटमेतत् सुपुष्टितम्
प्रकरणम् ]
१११
कल्याणपीयूषव्याख्यासमेता

 एवं जात्यादीनामपि बोध्यम् । जातिः कथं व्यक्तिषु विद्यते? कार्त्स्नेनोतैकदेशेन। नाद्यः; यदि जातिः कृत्स्नतयैकस्मिन् घटे विद्यते तदा घटान्तरे तस्या अनुपलब्धिः । न द्वितीयः ; जातेर्निरवयत्वात् ॥

 ननु जायमानस्य ज्ञानस्य साधारणात्मत्वात् ब्राह्मविषयसारूप्यरूपविशेष संबंधमन्तरा घटपटादिविविधवस्तुज्ञानस्यासंभवात् ज्ञानस्य विषयसारूप्यमवश्य मङ्गीकर्तव्यमिति चेन्न । ज्ञानगतविशेषस्यैव ज्ञानेन विषयीकरणान्न बाह्यार्थसिद्धिः; मानाभावात् । कल्पनागौरवाच्च । विज्ञानविषययोरेवमभेदोऽनिवार्य एव ।

 विज्ञानविषययोर्भेदे सति, तयोर्नियतसंबद्धयोर्लोकेऽनुभूयमानो नियतसंबंधो भेदपक्षे नोपपद्यते । एककालावच्छेदेन भासमानयोर्नीलतद्धियोर्विषयविजानयोर्नियमेन सहोपलब्धिर्लक्ष्यते लोके । तयोरन्यतरानुपलंभे कस्याप्युपलब्धेरभावात् । ययोर्नियतसहोपलब्धिस्तयोस्तादात्म्यसिद्धिः। यथा मृद्घटयोः। तथा विषयविज्ञानयोरपि। तयोर्भासमानो भेदा भ्रान्तिकल्पितः । एकस्सिश्चंद्रे द्वितीयचंद्रस्य दर्शनमिव । ‘अतैमिरिकचक्षुषा यन्न दृश्यते तद्धि द्वितीयचंद्रस्यासत्वम् ”। तस्माद्वाह्यार्थमवास्तवमिति सिद्धम् ॥

 जाग्रति ये बुद्धिगोचरा घटपटादिप्रत्यया विनैव बाह्यार्थेन ज्ञेयज्ञातृस्वरूपा भवन्ति; यथा स्वप्ने । अविद्यमानानां मरोच्युदकगंधर्वनगरादीनां स्वप्ने बुद्धि गोचरा: प्रत्ययाः। प्रतिदिनमनुभूयन्त एव ।

 वस्तुनो ज्ञानस्वरूपमाकारविधुरम् । न ज्ञानाकारम् । न ज्ञेयाकारम् । भ्रान्तिकृतविपर्यासवशात् ज्ञानं ज्ञातृज्ञानज्ञेयरूपेण त्रिविधमिव प्रतीयते । बाह्यार्थ- स्याभावेऽपि विविधाकारवैचित्र्ये वासनावैचित्र्यमेव कारणम् । अनादौ संसारे मिथ्याभूतवासनानामन्योन्यकार्यकारणभेदेन ज्ञातृज्ञानाकारभेदः संपद्यते । यथा बीजवासनया पुष्पादेनीलरक्तिमादिभेदः। अनादिसन्तानान्तर्गतपूर्वज्ञानमेव वासना ॥

 एवमक्षोदक्षमो बाह्यार्थः सर्वः शून्य एव । अनादिवासनावशादनेकाकारेण बुद्धिरेवावभासते । एवं बौद्धदेशिकोपदेशबलादखिलज्ञातृज्ञेयवासनानामुच्छेदे विग लितविषयाकारविशुद्धविज्ञानोदय उत्पद्यत इत्ययमेव महोदयः इति ।