पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१३८

पुटमेतत् सुपुष्टितम्
११२
[द्वैतविवेक
पञ्चदशी

 प्रौढया वैयर्थ्यमंगीकृत्यापि बाह्यसत्त्वं समर्थयति ।

वैयर्थमस्तु वा बाह्यं न वारयितुमीश्महे ।
प्रयोजनमपेक्षन्ते न मानानीति हि स्थितिः ॥ ३७ ॥

 बाह्यस्य वैयर्थ्यमस्तु वा। तथाऽपि बाह्यं वारयितुं नेश्महे । बाह्यस्य वारयितुमशक्यत्वात्तदभ्युपगच्छामः । न तु भवानिवापलपामः । कुतस्तद्वारण- मशक्यमित्यत आह, प्रयोजनमिति । मानानि प्रमाणानि प्रयोजनं फलं नापेक्षन्ते, इति स्थितिर्हि । चक्षुरादीन्द्रियाणि स्वप्रयोजनवद्वस्तुज्ञानं यथा जनयन्ति तथा स्वप्रयोजनशून्यवस्तुज्ञानमपि जनयन्तीति लोकानुभवः। एवं च निष्प्रयोजनस्यापि मानसिद्धत्वेन प्रमितत्वात् प्रमितपदार्थफलस्यापकर्तुं भवतामिव नास्माकं साहसमिति भावः ॥ ३७ ॥

ईशसृष्टिर्न ज्ञानबाधकं किन्तु साधकम् ।

 मानसप्रपंचस्यैव बंधहेतुत्वे सिद्धान्तिते, योगी प्रत्यवतिष्ठते, बंध इति ।

बंधश्चेन्मानसद्वैतं तन्निरोधेन शाम्यति ।
अभ्यसेद्योगमेवातो ब्रह्मज्ञानेन किं वद ॥ ३८॥

 मानसद्वैतं मनःकल्पितं कामनिमित्तं द्वैतं जीवस्य बंधः बंधहेतुरित्यभ्युपगम्यते चेत् तन्निरोधेन तस्य मनसो निरोधेन नियमनेन शाम्यति नश्यति । निरुद्धस्य तस्य मनोमयप्रपंचोत्पादकत्वाभावात्तदभावे बंध एव न भवति । अतस्त- न्निरोधोपायमाश्रयेदित्याह, अभ्यसेदिति । योगमेव चित्तवृत्तिनिरोधमेवाभ्यसेत् । “योगश्चित्तवृत्तिनिरोध” इति पातंजलसूत्रम् । “यथा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् । तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ। (कठ. २. ६. १०, ११) इति श्रुतिः । एवं श्रुतिसूत्रोपदिष्टयोगाभ्यासेन बंधविमोकरूपस्य मोक्षस्य सिद्ध्या ब्रह्मज्ञानेन किं वद ? तत्प्रयोजनस्यान्यथा सिद्धत्वान्न किमपि प्रयोजनमिति | भावः ॥ ३८ ॥