पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१४

पुटमेतत् सुपुष्टितम्

१०

 एवं प्रकरणचतुष्टयेन साधितं युक्तिसिद्धमर्थं श्रुतिप्रमाणसिद्धमिति निरूपयितुं महावाक्यविवेकनामकं पंचमं प्रकरणं व्यरचयन् ।

 अनेन प्रकरणपंचकेन सर्वोऽपि वेदान्तसिद्धान्तः स्पष्टं निरूपित इत्यवधेयम्। एवं श्रुतियुक्तिभ्यां सिद्धमर्थमनुभवेनाप्युत्तमाद्यधिकारिणां क्रमेण बोधयितुं दीपपंचकं प्रारब्धम् । तत्र मंदमध्यमाधिकारिणां तत्तस्य परोक्षतया ज्ञानेऽपि मोक्षोपयोग्यपरोक्षसाक्षात्कारो नैव घटत इति पर्यालोच्य तदनुजिघृक्षया ध्यानेन स संपादनीय इत्युपदेष्टुं ध्यानदीपप्रकरणं च तत्र निवेशितम् । सुकुमारबुद्धीनां कान्तासम्मिततयोपदेशस्य देशिकाभिमततया तादृशानामुपदेशाय नाटकदीपाख्यमपि प्रकरणं विनिवेशितम्। “प्रयोजनमनुद्दिश्य न मंदोऽपि प्रवर्तत” इति न्यायमनुसृत्य परमानंदावाप्तिलक्षणं प्रयोजनं दर्शयितुमानंदपंचकमिति ध्येयम्

 एवं मोक्षप्राप्त्युपायप्रदर्शकस्य सकलवेदान्तसारभूतस्य वेदान्तपंचदशीनामकस्यास्य ग्रंथस्य स्वभावतस्सुबोधत्वेऽपि कालक्रमेण संस्कृतभाषापरिज्ञाने संकोचमापन्ने सामान्याकारेण संस्कृतभाषापरिज्ञानवतां प्रकारांतरेण तत्त्वविमर्शनचतुराणामनायासेन बोधं संपादयितुकामः आंग्लभाषापरिज्ञानेन न्यायवादिपदमलंकुर्वाणः स्वनाम्नैव स्वस्य श्रोत्रियाभिजनत्वमावेदयिता अग्लभाषापठनावसरे स्वाभिजनानुरोधेन संस्कृतभाषां तदपेक्षिताधिकमभ्यस्य तत्पाटववशात्प्रस्थानत्रयं समुचिताचार्यमुखादधीत्य अद्वैतसिद्धान्ते बद्भादरः आत्रेयगोत्रोद्भवो रायप्रोलूफ्नामक लिङगन सोमयाजी अस्य ग्रन्थस्य सरलामतिसुलभां कांचन व्याख्यां समरचयत् । यद्यप्यस्य ग्रन्थस्य बहुभिः पंडितप्रकांडैर्विरचिताः प्राचीनव्याख्याः संत्येव । तथापि तासामतिप्रौढतया अद्यत्वे अनायासेन मूलग्रन्थतात्पर्यबोधनक्षमास्सामान्यज्ञानवतां न भवम्तीत्यालोच्य तादृशानामप्यनायासेन बोधो भवत्वितीच्छया एतद्याख्यानरचने प्रवृत्त इति ज्ञायते तत्तद्वाख्यानदर्शनसमकालमेतद्व्याख्यानदर्शने । तथा हि । अस्यां च व्याख्यायां यथा साकल्येन पदव्युत्पत्तिः पदार्थयोजना च दृश्येते तथा न पूर्वासु व्याख्यासु । अन्यच्च तासु व्याख्यासु मूलप्रतिपादितार्थोपपादकतया श्रुतयो वैरल्येन प्रदर्शिताः। तासामप्यर्थविशेषो न प्रदर्शितः । अत्र तु तादृशश्रुतयः प्राचुर्येण प्रदर्शिताः तत्तच्छृतिसंदर्भविशेषपुरस्सरं तत्तदर्थप्रदर्शनं च सम्यक्कृतम्। एतद्ग्रन्थ