पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१४३

पुटमेतत् सुपुष्टितम्
प्रकरणम् ।]
११७
कल्याणपीयूषव्याख्यासमेता

वर्णैरादेहपातं नियतकर्तव्यतया कर्म विधीयत इति चेन्न । तस्याविद्याविषयत्वात् । गृहस्थाश्रमप्राप्तं सर्वं पांक्तादिलक्षणं कर्म । “जाया मे स्यादथ प्रजायेय.... एतवान् वै कामः” (बृ- १. ४. १७) इति जायापुत्रवित्तादिंसाध्यसाधननिबद्धो रामप्राप्तो गृहस्थाश्रमः । एवं सर्वं पांक्तं कर्म काम्यमेव । तथा च श्रुतिः । “उभे ह्यैते एषणे एव ” (बृ. ४. ४. २२)। एषणा च रागतः प्राप्ता। रागस्त्व- ज्ञानमूलकः । आप्तकामस्य ज्ञानिनोऽविद्याया अनुपपत्तेः । अन्यथा शास्त्रस्य विरुद्धार्थबोधकत्वापत्तिः स्यात् । विद्याविद्ययोर्युगपदेकस्यैव पुरुषस्याविषयत्वाच्च । “दूरमेते विपरीते विषूचो अविद्या या च विधे” (कठ.१.२.४.) त्यादिश्रुति- भिर्विद्याविद्ययोर्युगपदेकत्रानवस्थानमेवाभिधीयते । "तपसा ब्रह्म विजिज्ञासस्वे " (तै. ३.२) ति ब्रह्मज्ञानावाप्तये श्रवणाद्यात्मकं तपः साधनं कर्मेतरं मार्गमुपदिष्टं च । एवं कर्मणो ज्ञानस्य प्रतिबंधकत्वं च सूच्यते । तर्हि चोदनाशास्त्रम् सर्वं निरर्थकमेव स्यादिति चेन्न । न हि कमपि नियुङ्क्ते शास्त्रं प्रवृत्तिं प्रति । कि तु सहजरागप्राप्तां तामनुसरतोऽविदुषः प्रयोजनाय विधिनिषेधवाक्यैर्व्यवस्थां कल्पयति निरर्थकमेव भवतु नाम विदुषः सर्वं चोदनाशास्त्रम् । न तथा भवत्याध्यात्मिकमौपनिषदं शास्त्रम् । बाढम् तदपि त्याज्यमेवः अवगततत्वार्थस्य तस्य वैयर्थ्यात् । निस्संशयज्ञानोत्पादनावधानि गुरुशास्त्रादीनि । किं तैस्साक्षात्कृतात्मतत्त्वस्य ? अतिक्रान्ततमस्कस्य किं दीपेनेति ॥ ४८ ॥

 ननु शास्त्रीयद्वैतस्य तत्वबोधपर्यन्तमुपादेयत्वोक्त्याऽन्यस्य ततः पूर्वमेव हेयतोक्तप्राया। किंमित्येवंव्यवस्थया ? तस्यापि तावत्पर्यन्तमुपादानमवोस्तु बाधकाभावात्, इत्याशंकां मनसि निधाय पूर्वमेव हेयत्वावश्यकतां दर्शयितुं प्रथममशास्त्रीयं विभजति ।

अशास्त्रीयमपि द्वैतं तीव्रं मंदमिति द्विथा ।
कामक्रोधादिकं तीव्रं मनोराज्यं तथेतरत् ॥ ४९॥

 स्पष्टोऽर्थ : ॥ ४९ ॥

 तयोः प्राग्घेयत्वावश्यकतां दर्शयति, उभयमिति ।