पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१४४

पुटमेतत् सुपुष्टितम्
११८
[द्वैतविवेक
पञ्चदशी

उभयं तत्त्वबोधात् प्राङ्निवार्यं बोधसिद्धये ।
शमः समाहितत्वं च साधनेषु श्रुतं यतः ॥ ५० ॥

 स्पष्टः पूर्वार्धः। तत्र कारणमाह । यतः शमः बाह्येन्द्रियनिग्रहः समाहितत्वं च चित्तैकाग्र्यम् च तत्त्वज्ञानस्य साधनेषु श्रुतम् । “शान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावित्तो भूत्वाऽत्मन्येवात्मानं पश्येदि" (बृ.४. ४.२३.) ति श्रुतेः । साधनचतुष्टयसंपत्यनन्तरमेव ब्रह्मजिज्ञासा कर्तव्या । “अथाऽतो ब्रह्मजिज्ञासे “ (सु. १.१.१) ति सूत्रबलात् । नित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमादिसंपत्तिः, मुमुक्षुतेति साधनचतुष्टयम् । एवं ब्रह्मजिज्ञासायाः प्रागेवावश्यकं संपादयितव्ये शमादिषट्के, एकदेशभूतयोः शमसमाध्योर्विरोधिभूतमशास्त्रीयं द्वैतं शमादितः पूर्वं हेयम् । तत्सत्वे शमादेरनुदयात्। एवं च ब्रह्मबोधपर्यन्तमशास्त्रीयद्वैतस्यीपादानं न संभवतीति प्रागेव हेयत्वमुक्तम् ॥ ५० ॥

 साधनचतुष्टयसंपत्तयेऽशास्त्रीयद्वैतस्य बोधात् पूर्वं हेयत्वप्रतिपादनेऽपि बोधोत्तरं हेयत्वं न प्रतिपादितं स्यात् । अतस्तदानीं तदुपादेयतायां भ्रमः स्यादिति । तन्निवारणाय तदाऽपि हेयत्वं प्रतिपादयति, बोधेति ।

बोधादूर्ध्वं च तद्धेयं जीवन्मुक्तिप्रसिद्धये ।
कामादिक्लेशबंधेन युक्तस्य न हि मुक्तता ॥ ५१ ॥

 बोधादूर्ध्वं तत्त्वज्ञानोत्पत्त्यनन्तरमपि जीवन्मुक्तिप्रसिद्धये जीवन्मुक्तेः प्रकर्षेण सिद्धये तदशास्त्रोयं द्वैतं हेयमेव । तत्रोपपत्तिमाह, कामेति । कामादि क्लेशबंधेन कामादय एव क्लेशाः तद्रूपो यो बंधः तेन युक्तस्य मुक्तता न संभवति ॥ ५१ ॥

 ननु जीवन्मुक्तिः किमित्यभ्युपेया ? यत्प्रसिद्धये बोधादूर्ध्वमशास्त्रीयद्वैतस्य हेयत्वं प्रतिपाद्यते । पुरुषस्य जन्मराहित्येन कृतार्थतासंभवाद्विदेहमुक्त्यै- बालमित्याशंक्य प्रतिबम्द्या समाधत्ते, जीवन्मुक्तिरिति ।