पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१४६

पुटमेतत् सुपुष्टितम्
१२०
[द्वैतविवेक
पञ्चदशी

 ननु निष्कामकर्माचरणेन शुद्धचित्तस्यैव जिज्ञासोदयात् परंपरया निःश्रे- यससाधनचित्तशुद्धिसंपादनार्थमामुष्मिकफलकामना सर्वथा त्याज्या । एवं च तत्र वैराग्यमेव परंपरया निःश्रेयससाधनतया तस्यैव हेयत्वमंगीकार्यम् । ऐहिकफलकामनायाः परंपरानिःश्रेयससाधनामुष्मिकवैराग्याविरोधित्वात्तत्कामना किमिति त्याज्या ? साधनचतुष्टयान्तर्गतं वैराग्यममुत्र फलभोगविराग एव । नैहिकफलभोगविरागः, तस्योक्तकारणपरंपरानन्तःपातित्वात् । इत्याशं- क्यैहिकफलभोगविरागस्यापि साधनचतुष्टयान्तःपातित्वं प्रतिबन्धकाभावविध येत्याशयेंनाह, तत्त्वमिति ।

तत्त्वं बुद्ध्वापि कामादीन्निःशेषं न जहासि चेत् ।
यथेष्टाचरणं ते स्यात् कर्मशास्त्रातिलंधिनः ॥ ५४ ॥

 तत्त्वं बुद्ध्वापि कामादीन् निश्शेषं न जहासि चेत् ऐहिकफलकामनां निःशेषं न त्यजसि चेत्, कर्मशास्त्रातिलंघिनः कर्म अधिकृत्य कृतं यच्छास्त्रं तस्य मर्यादामतिक्रम्योत्यत इति हेतुगर्भविशेषणं, ते यथेष्टाचरणमैहिकभोगप्रयोजक निषिद्धकर्माचरणमपि स्यात् प्रसज्येत । एवं च तस्फलभृतपापेन साक्षात्कारः प्रतिबद्ध एव स्यात् । अत एव वक्ष्यति वैराग्यस्य परिपाकाभावो बोधे सत्यपि तस्य पूर्णतां न संपादयतीति । पूर्णबोधस्यैव मोक्षहेतुत्वमिति । वैराग्यतारतम्य- मस्तीति च । तत्र कर्मशास्त्रातिलांघेन इत्युक्तया तत्त्वं बुद्ध्वापीत्यत्रोपात्तो बोधो वस्तुतो न बोधः । किं तु बुद्धत्वाभिमान एव। यथेष्टाचरणापादनमपि कामा- द्यधीनाचरणापादनपरमेव ; न तु निष्कामाचरणपरं । अत एव ब्रह्मसाक्षात्कारवत: कर्मशास्त्रानपेक्षमुक्तम् । अन्यत्र “निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेध" इति सूचितम् । अनेन तस्य विधिनिषेघापेक्षत्वमुक्तं ; न तु तदुल्लंघनम् । एवं सति तत्त्वबोधानन्तरं गृहस्थाश्रमः समग्रतस्त्याज्य एव भवतिं ; ज्ञानकर्मणोरत्यन्तविरोधात्। शरीरधारणार्थं भिक्षाटनादेर्नियमेन तुरीयाश्रमिणोऽपि विहितत्वात्तस्यापि नियमाभावाभाव एव। भिक्षाटनादेः कायक्लेशपरिभवाद्यनिष्टहेतोरेषणात्रय- परित्यागानन्तरमपि वरं स्वगृह एव निवासः इति चेन्न; तस्य काम- प्रयुक्तत्वात् । शरीरधारणमात्रभिच्छतोऽपि स्वगृहनिवासः कामप्रयुक्त एव । स्वगृहाभिमानदूषितश्च । स्त्रीविशेषविशिष्टमेव गृहमित्येषणात्रयपरिस्याग: स्वगृह-