पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१४९

पुटमेतत् सुपुष्टितम्
प्रकरणम् ।]
१२३
कल्याणपीयूषव्याख्यासमेता

 मनोराज्ये यथेष्टं मनसि विषयध्यानेन क्षतिः हानिः अशेषदोपबीजत्वात् सर्वेषां कामादिदोषाणामुत्पत्ते:कारणम् । स्पष्टमन्यत् ॥ ५९ ॥

मनोराज्यपरित्यागप्रशंसा

 उक्तप्रकारं भगवद्वाक्यप्रदर्शनेन विशदयति, ध्यायत इति ।

ध्यायतो विषयान् पुंसः संगस्तेषूपजायते ।
संगात्संजायते कामः कामात्क्रोधोऽभिजायते ॥ ६० ॥

 (गी-२-६२.) विषयान् स्रगादीन् ध्यायतो मनसि भावयतः पुंसः तेषु संग आसक्तिरुपजायते। संगात् कामस्तृष्णा संजायते । विफलीकृतात् कामात् क्रोधः कोपोऽभिजायते संपद्यते । दिक्प्रदर्शनमात्रमेतत् । तत्रोक्ता प्रणाळी सर्वाप्यत्रानु संधेया ॥ ६० ॥

 कामादिपरित्यागः काम्यादिदोषदृष्टथादिहेतुद्वारा सुशकः। मनोराज्य परिहारस्तु दुःशक एवेत्याशंक्य तस्यापि हेतुप्रदर्शनेन सुशकत्वं प्रतिपादयति शक्यमिति ।

शक्यं जेतुं मनोराज्यं निर्विकल्पसमाधितः।
सुसंपादः क्रमात्सोपि सविकल्पसमाधिना ॥ ६१ ॥

 निर्विकल्पसमाधितो निर्विकल्पे विषयिणि परे ब्रह्मणि चित्तैकाग्रथम् । तदाकारा चित्तवृत्तिः। ततो दोषबोजकारणं मनोराज्यं जेतुं शक्यं । तस्य । दुःशकत्वमाशंक्य तदुपायप्रदर्शनेन सुशकत्वं प्रदर्शयति, सुसंपादेति । सोऽपि निर्विकल्पसमाधिः सविकल्पसमाधिना सगुणध्यानेनाभ्यासक्रमात् सुसंपादः सुसाधः ॥ ६१ ॥

 ननु योगयुक्तस्य भवदुक्तप्रणाळ्युपयुज्यते । योगविरहितस्य का गतिरि त्याशंक्य तस्यापि मनोराज्यत्यागदिशमुपदिशति, बुद्धेति ।

बुद्धतत्त्वेन धीदोषशून्येनैकान्तवासिना । ।
दीर्घं प्रणवमुच्चार्य मनोराज्यं विजीयते ॥ ६२ ॥