पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१५१

पुटमेतत् सुपुष्टितम्
प्रकरणम् ।]
१२५
कल्याणपीयूषव्याख्यासमेता

मननपूर्वकं बुद्धौ सम्यगवधारितम् । तस्येदं पर्यवसितम् । संत्यक्तवासनात् सम्यक् परित्यक्तकामादिसंस्कारान्मौनादृतें मनसस्तूष्णींभावाद्विनोत्तममधिकं पुरुषार्थसाधनं पदं स्थानमन्यन्नास्तोति ॥ ६५ ॥

 एवं संपादितस्य मौनस्यारब्धकर्मणा विक्षेपे सति प्रतीकारमाह, विक्षिप्यत इति ।

विक्षिप्यते कदाचिद्धी: कर्मणा भोगदायिना ।
पुनः समाहिता सा स्यात्तथैवाभ्यासपाटवात् ॥ ६६ ॥

 भोगदायिना भोगस्यावश्यंजनयित्रा प्रारब्धेन कर्मणा । अभ्यासपाटवादनुक्षणमेव सविकल्पसमाधेरभ्यासदाढर्यात् स्पष्टमन्यत् ॥ ६६ ॥

 सर्वधा विक्षेपरहितः केवलब्रह्मैव भवतीत्याह, विक्षेप इति ।

विक्षेपो यस्य नास्त्यस्य ब्रह्मवित्त्वं न मन्यते ।
ब्रह्मैवायमिति प्राहुर्मुनयः पारदर्शिनः ॥ ६७ ॥

 यस्य चित्तस्य विक्षोपो नास्ति अस्य ज्ञानिनो ब्रह्मवित्त्वं न मन्यते वास्तविकं ब्रह्मज्ञानित्वं नाभ्युपेयते । किं त्वौपचारिकमेव। किं नानुमन्यत इत्याशंम्क्याह, ब्रह्मेति ? अयं ज्ञानी ब्रह्मैव ब्रहैवाहमस्मीति महावाक्यस्य लक्ष्य एव भवतीति पारदर्शिनः वेदान्तकोविदो मुनयो मननशीला: प्राहुः। तस्य ब्रह्म- भावादद्वैतस्वरूपत्वेन ब्रह्मविदिति भेदावगाहिव्यवहाराविषयत्वाद्ब्रह्मवित्वं तत्रौप- चारिकमित्यर्थः॥६७॥

 अत्र वासिष्टमुदाहरति, दर्शनेति ।

दर्शनादर्शने हित्वा खयं केवलरूपतः ।
यस्तिष्ठति स तु ब्रह्मन् ! ब्रह्म न ब्रह्मवित्स्वयम् ॥ ६८ ॥

 हे ब्रह्मन् दर्शनादर्शने दर्शनं ज्ञानं अदर्शनमज्ञानं च द्वे हित्वाऽपनुद्य ब्रह्माहं जानामि नाहं जानामित्याकारकव्यवहारद्वयं हित्वा । स्वयं केवलरूपतः