पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१५३

पुटमेतत् सुपुष्टितम्

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी


महावाक्यप्रकरणम् ।


 जिज्ञासोर्वैराग्योत्पादनधिया विस्तरेण प्रपञ्चितमीश्वरसृष्टस्य जगतो मिथ्यात्वं, क्रियाकारकफलाभिसन्धिप्रयुक्तस्य कर्मकलापस्यानित्यफलहेतुत्वेन हेयत्वं च । जीवात्मब्रह्माभेदश्च संक्षेपतो ज्ञापितः । विशेषतः पदार्थशोधनमन्तरा वैराग्यमात्रेण सम्यक्तत्त्वबोधो नोदेतीति सत्पदार्थस्वरूपनिरूपकाणि सकलवेदार्थसारसंग्रहरूपकाणि महावाक्यान्यवश्यं व्याख्येयानि । विद्यते च प्रसक्तिः स्वरूपशोधनाय । “ एकमेवाऽद्वितीयं ब्रह्म” (छां . ६.२.१.) “आत्मा वा इदमेक एवाग्र आसीदि" (ऐ. १.१.१.) त्यादिश्रुतिभिः प्रतिपादितस्य सजातीयविजातीयस्वगत भेदरहितस्य निरुपाधिकस्य कस्यचिदव्यक्तवस्तुनः सद्भावः प्रतिपादितः । तथैव “स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत" (ऐत. १. ३. १२) इति श्रुतौ श्रूयते सोपाधिकोऽन्य इवात्मा यो वामदेवादिभिरनुदिनमुपास्यत आत्मेति । तैरुपास्यः कोऽयमात्मा ? आत्मा कः ? किंस्वरूपः ? सोपाधिक उत निरुपाधिकः ? ,इत्यात्मनो विशेषम्वरूपमवश्यं विचारणीयम् । अन्यच्च, आत्मनोऽस्मत्प्रत्ययगोचरत्वाद्विविधकोटिमारोहति तद्विचारणारीतिः। चैतन्यात्मकोऽहंप्रत्ययोऽनेकधा अभिव्यज्यते। स्थूलोऽहं, अहं पश्यामि, अहं स्मरामीत्यादिप्रतीतिबलात् । अतः प्रसक्तिर्विद्यते, “कोऽयमात्मेति वयमुपास्महे” (ऐ. ५.१.), इति विचारणाय । एवं विचारणीये विषये संशयकोटिमास्थिते पदार्थशोधनमन्तरा न निश्चयज्ञानमिति चतुर्षु वेदेषुपलभ्यमानैर्महावाक्यैर्यन्निश्चितमात्मस्वरूपं तद्याचिकीर्षया प्रारभ्यते पंचमं महावाक्यप्रकरणम् । विशिष्टार्थबोधकतया यदुच्यते तद्वाक्यम् । महच्च तद्वाक्यं च महावाक्यम् । "अन्महदित्या"त्वम् । सर्वेषां ब्रह्मविद्याप्रतिपादकानां