पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१५७

पुटमेतत् सुपुष्टितम्
प्रकरणम् ।]
१३१
कल्याणपीयूषव्याख्यासमेता

मात्रमेव यदि विवक्षितं स्यात् , "पूर्वत्र प्रमितावभास” इत्येव वदेदित्यलम् । अतः परेवस्तुन्यद्वैते नानात्वदर्शनं भ्रम एवेति तत्त्वज्ञास्संतुष्यन्त्येव ।

 अतो मयि यत्प्रज्ञानं दृश्यते तदपि ब्रह्मैव । यच्च “यतो वा इमानि भूतानि जायन्ते (तै. ३.१.) इत्यादिनोक्तं ब्रह्म सृष्टिस्थितिलयकारणत्वेनोक्तम् । तथैव “प्रज्ञाने प्रतिष्ठितम् प्रज्ञानेत्रो लोकः प्रज्ञाने प्रतिष्ठेति” (ऐ. २.५.३.) चोक्तं, प्रज्ञानस्य जगत्प्रभवाप्ययत्वादिकारणत्वम् । अतः प्रज्ञानं ब्रह्मेति सामानाधि- करण्येन प्रज्ञानब्रह्मणोरैक्यमेव सिध्यति । एवं देवतिर्यङ्नारादिषु वैलक्षण्येणाप्यनु- भूयमान आत्मा ह्येक एव न तु भिन्नः। अनुभूयमानवैलक्षण्यस्योपाधिप्रयुक्तत्वेनोपधेये स्वतो भेदस्य संपादयितुमसमर्थत्वत् । अतः “कतरस्स आत्मेति"प्रश्नो नोदेतीत्येवेति भावः ॥ २ ॥

"अहं ब्रह्मास्मीति” वाक्यार्थविचारः ।

 ऐतरेयमहावाक्यविचारणानन्तरं, बृहदारण्यकान्तर्गतं "अहं ब्रह्मास्मीति (१.४.१०.) महावाक्यार्थमुत्तरश्लोकद्वयेंनाह । साध्यसाधनोर्मिमालाकुलं धर्माधर्मग्राहगृहीतं संसारसागरं सद्गुरुसमासादितज्ञानोडुपेन तितीर्षवो ब्रह्मवादिनः परब्रह्मस्वभावं प्रति विचारयांचक्रुः“यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते । किमु तद्ब्रह्मावेत् यस्मात्तत्सर्वमभवदिति” । बृ. १.४.९.) यद्ब्रह्मविद्यया सर्वं निरवशेषं भविष्यन्तो भविष्याम इति मनुष्या ब्रह्मविद्याधिकृता मन्यन्ते तद्ब्रह्म किमावेत् ज्ञातवान् यस्मात् ज्ञानात् तद्ब्रह्म सर्वमभवदिति मन्त्रार्थः । यत्किंचित् ज्ञात्वा ब्रह्म सर्वमभवत् । उताज्ञात्वैव ? आद्ये ब्रह्मणस्सर्वभवनस्य ज्ञानजन्यत्वादनित्यमेव तस्य सर्वभवनम् । द्वितीये यथा ब्रह्मणस्तथान्येषामप्यज्ञानेनैव सर्वभवनसमर्थता स्यात् । किं ब्रह्मविद्यागौरवेण ? किमु विज्ञायैव सर्वमभवदिति च वक्ष्यति श्रुतिः । तर्हि किमु तत् यदावेत् यद्ब्रह्म सर्वमभवदिति ब्रह्मवादिनां प्रश्नविषयः । प्रतिवचनं श्रुत्यैवोच्यते, ‘ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेत्" "अहं ब्रह्मास्मीति”-अहं ब्रह्मास्मीति ब्रह्मावेत् येन तत्सर्वमभवदित्यर्थः । अत्राहंशब्दार्थं विशदयति परिपूर्ण इति ।

परिपूर्णः परात्माऽस्मिन् देहे विद्याधिकारिणि ।
बुद्धेः साक्षितया स्थित्वा स्फुरन्नह्यमितीर्यते ॥ ३॥