पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१५८

पुटमेतत् सुपुष्टितम्
१३२
[महावाक्य
पञ्चदशी

 परिपूर्णः देशकालवस्तुभेदैरपरिच्छिन्नः सर्वसमृद्धः परात्मा “अह"मितीर्यने कथ्यते ’किं कुर्वन् तथेर्यते? अस्मिन् जगति विद्याधिकारिणि विद्यायाः ब्रह्मविद्यायाः शमादिसाधनसंपत्त्याधिकृते देहे मनुष्यशरारे, मनुष्याणामेवात्यन्तं सगुणनिर्गुणोपासनायोग्यत्वात् सर्वसंकल्पविकल्पनिश्चयात्मिकाया बुद्धेरन्तःकरणस्य साक्षितया स्थित्वा स्वयं किमप्यकुर्वन् सर्वव्यवहारद्रष्टा भूत्वा स्फुरन् स्वयमविकारी सन्नेव स्वसान्निध्यमात्राद्बुध्याद्यवभासक इति व्यवहृतस्सन् लक्षणया अहमितीर्यते तत्पदाभिधेयो भवतीति भावः ॥ ३ ॥

 अथ ब्रह्मशब्दार्थमाह, स्वत इति ।

स्वतः पूर्णः परात्माऽत्र ब्रह्मशब्देन वर्णितः ॥ ३॥

 अत्रास्सिन् महावाक्ये स्वत इतरसहायमनपेक्ष्य पूर्णः देशकालवस्त्वनव- च्छिन्नः परात्मा ब्रह्मशब्देन वर्णितः। बृहि वृद्धाविति ब्रह्मशब्देन नित्यशुद्धत्वादयोऽर्थाः पूर्णतया प्रतीयन्ते । तेन च नित्यशुद्धबुद्धमुक्तस्वभावं ब्रह्मेति विज्ञायते। अत्र केचित्प्रत्यवतिष्ठन्ते । अत्र ब्रह्मशब्देनापरब्रह्मैव भवितुं युक्तम् । वेदनाकर्तुरेव सर्वभवनोक्तिर्वेदना कर्तुरपरत्वेनानुभूयमानत्वात् । भविष्यत्काले मनुष्याणामपि तत्पदलंघनाधिकारस्य श्रूयमाणत्वात् । “अहं ब्रह्मास्मीति” ज्ञानस्य साधनभेदेनोपदिष्ट्योः कर्मोपासनयोरनुरूपो मार्गो गम्यस्थानं फलं च विशेषत उपदिश्यते । दक्षिणोत्तराविति मार्गभेदः, ब्रह्मलोकस्वर्गलोकादिगम्यस्थानभेदः, तत्र निवासस्यचप्रलयं कर्मक्षयावधिरूपफलभेदश्च, श्रूयते । तस्माद्युक्तं प्रस्तुतं ब्रह्मापरब्रह्मेत्युच्यते, इति चेन्न । प्रकरणविरोधात् । ज्ञानकर्मणोर्विभूतिवर्णनाव्याजेन तयोरुत्कर्षः पूर्वार्धे प्रकर्षेण स्तूयते । ब्रह्मविद्याया मोक्षहेतुत्वं चोत्तरार्धे प्रदर्श्यते । तदर्थमेव प्राणादीनां परब्रह्मणः कर्मनाम्नामेकैकोपासकस्याकृत्स्नतामभिधाय “आंत्मैवोपासीतात्र ह्येते सर्वे एकं भवन्ति तदेतत्पदनीयस्य सर्वस्य यदयमात्मानेनह्येतत्सर्वं वेदे" (बृ. १.४.७.)त्यात्मैक्यज्ञानस्य फलमात्मनः पदनीयसर्वात्मभवनमिति चाभिहितम्। पुत्रवित्ताद्यन्यस्मात्सर्वस्मात् प्रियतममित्यादिनात्मोपलब्धिरेव तत्पदनीयं पदमिति वर्णितम् । तत्ज्ञानाभिलाषया ब्रह्मवादिनः परस्परमपृच्छन् ,"यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदि”ति ।