पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१५९

पुटमेतत् सुपुष्टितम्
प्रकरणम् ।]
१३३
कल्याणपीयूषव्याख्यासमेता

यत्किंचिदन्यज्ञानफलभूतं सर्वात्मभवनमेवात्र यद्यभिहितं भवति, तर्हि यत् ज्ञात्वा ब्रह्माभवत् तत्सर्वात्मभवनमनित्यमेवस्यात् न तु निश्रेयसावाप्तिस्तत् । ततज्ञानेनैव वामदेवादयो निःश्रेयसं प्रपेदिरे, इति । अतो निःश्रेयसप्राप्तिकथनप्रकरणेऽन्यज्ञान- कथनमप्रस्तुतमेव ।

 किंच यद्यनात्मज्ञानेनैव सर्वभवनसिद्धिस्तदा ब्रह्मविद्याया वैयर्थ्यात् ब्रह्म विचारस्यानर्धक्यमेवापतेत् । सर्वोपनिषदुपबृंहितं श्रूयते सर्वशास्त्रनिश्चितार्थतया सैंघवधनवदेकरसं ब्रह्मविज्ञानमेवामृतत्वनिमित्तमिति ।

 किंच सर्वात्मभवनस्य ज्ञानजन्यत्वेऽनित्यत्वप्रसक्तेः । यदन्यकारणजन्यं भावान्तरं न तन्नित्यं भवितुमर्हति ।

 परब्रंह्मणोऽन्यस्य वेदनासंभवाच्च। यद्ब्रह्म प्राक् सृष्टेरासीत्तस्यैव ब्रह्मणः "तदात्मानमावे"दित्यात्मवेतृत्वमुक्तं भवति । वेदनसमयेऽपरब्रह्मैव नास्ति । "ब्रह्म वा इदमग्र आसीत् । तदात्मानमावे"दित्युक्तत्वात् । यद्ब्रह्म प्राक्सृष्टैरासी- त्तद्ब्रह्मैवावेदित्यनिवार्यं भवति ।

 अपि च। अन्यस्यान्यभावानुपपत्तेः । ननु "ब्रह्मविद्यया सर्वं भविष्याम इति मन्यन्ते मनुष्याः, इत्यनेन ब्रह्मविद्ययाऽन्यभावः श्रुतिसिद्ध इति चेन्न । अन्यभावस्य शास्त्रेणाऽवबोधनात् । ज्ञापकमेव शास्त्रं न तु कारकम् । न हि ब्रह्मविद्याऽब्रह्माणं ब्रह्माणं करोति ।किंत्वविद्यावरोधेनात्मानमन्यं मन्यमानं ‘‘त्वं ब्रह्मेतिज्ञापयित्वाऽविद्यापनोदनमार्गमुपदिशति । अविद्यावरणोच्छेदे स्वभावसिद्धं परमार्थं वस्तु स्वयं प्रकाशमानं ग्रीवाबद्धकटकमिवावाप्यते । अयमेवाशयस्संदिश्यते सर्वात्मभवनशब्देन । श्रुत्वा गुरुशास्त्राभ्या"महं ब्रह्मस्मी"त्यादिमहावाक्यार्थं तन्मननेन दृढीकृत्वान्यथाभावनिमित्तामविद्यामपहाय ब्रह्मवित्स्वयमभवदित्यलम् ।

एवं पदार्थं निरूप्य वाक्यार्थं फलकथनपूर्वकं दर्शयति, अस्मीति ।

अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् ।। ४॥