पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१७

पुटमेतत् सुपुष्टितम्

१३

पांतकं विशदीकृताः। भावश्चोचितस्थलेषु क्रोडीकृतः । मूलग्रन्थे उदाहृतानां श्रुतिस्मृतिसूत्राणां प्रकरणपुरस्सरं तात्पर्यप्रकटनं च विपुलतया कृतम् । अन्यानि चाद्वैतसिद्धान्तप्रतिपादकान्यौपनिषदानि प्रमाणान्युपशतत्रयसंख्याकान्युदाहृतानि येन ग्रन्थान्तरमन्तरा सर्वमद्वैतमतप्रदीपकं प्रमाणजातमत्रैव करतलगतं भवेत् । अस्मिन् व्याख्यानरचनाविधौ श्रीभगवत्पादादीनां भाष्यादिभ्यः पूर्वव्याख्यानेभ्यश्च विशेषविषयान् यथेच्छमाहरतोऽल्पमतेर्न मे कापि क्षतिर्न्यूनता वा संभाव्यते । वरी वर्तते महान् पंडितवर्गो यो विग्रहवानखिलविद्यावबोधः । तं प्रत्यनिशं नमोवाकमाशास्महे ।

 सामान्याकारेण संस्कृतभाषापरिचयवतामप्यनायासेन विषयग्राहकपटीयसीं शैलीमाश्रित्य व्याख्यातोऽयं ग्रन्थः । तथा हि । सर्वो हि वेदवेदान्तराशिर्वैदिकवाङ्मयो विराजते । अविदितनिगमार्थानामनुग्रहाय विपुलस्यापि विषयजातस्य संग्रहेण प्रतिपादनाय तत्तच्छास्त्रकारा विविधानि सूत्राणि वार्तिकादीनि प्रसन्नगंभीराणि भाष्याणि च व्यरीरचन् । यत्र विषयविशयपूर्वपक्षसिद्धान्तादीनां साकल्यं विमर्शनेन प्रतिपाद्याथों सुविशदं विज्ञायते । तत्र परिदृश्यमाना शैली च प्रसन्नगंभीरा विविक्षितार्थस्य सुविशदीकरणपटीयसी निरुपमा च शोभते । तत्रत्या भाषा शास्त्रभाषेति व्यवह्रियते । भाष्याद्युपवर्णितविविधविषयनिर्णये पाटवाभावेन प्रमेयनिर्णयासमर्थानामानुकूल्याय परिकल्पिता नव्यतर्ककर्कशा प्रमेयनिर्णयपटीयसी प्रतिवादिजनविमोहिनी काचित् परिष्कारात्मिका भाषा । एवंविधापि शास्त्रभाषात्वेन व्यवह्रियमाणा तत्तच्छास्त्रज्ञैकसमधिगम्या दृश्यते । यया परिष्कारात्मिकया अशेषमिदं शास्त्रजातं समन्ततो व्याप्तम् । अध्येतृलोकस्य या नितरां क्लेशमापादयति च । अन्येषामपि विषयविशेषपरिशीलनपराणां वैरस्यमादधती प्राचीनैरादृतां प्रसादविमलां शैलीं समूलमुन्मूलयति । वाल्मीकिकालिदासादिभिरालंबिता दृश्यश्रव्यात्मिका सहजपेशला सकलांगसौष्ठवोपेता नवरसरुचिरा कोमलपदविन्यासा काचिदव्यक्तसुकुमारमूर्तिलौकिकभाषा सहृदयानानन्दयति । यत्र निगूढार्थपरिज्ञानमनायासेन जायते । काले गच्छति संस्कृतभाषायां राजपोषणात् प्रच्युतिमापन्नायां सर्वतोमुखवैदुष्यं च क्रमशः कार्श्यमाप्नोति । शास्त्राणां पठनपाठनवैरल्येन भारतधर्मस्य विज्ञानस्य च ग्लानिरनुदिनमभिवर्धते । तस्याचिरादेव विप्लवश्च जायेतेति