पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१७२

पुटमेतत् सुपुष्टितम्
१४६
[चित्रदीप
पञ्चदशी

प्रकृते वाक्यार्थस्याज्ञानरूपत्वेन तादृशाज्ञानानुभवो वक्तरि सिद्ध इति भावः । अज्ञानिनस्तत्कृतावरणानुभवं दर्शयति, नेति । स्वस्मिन्नेव साक्षितयाऽज्ञानानुभव- रूपेण भासमानं कूटस्थं बुध्वापि कूटस्थो न भाति नास्तीति वदति । इदं प्रतिवचनं तदावरणमंतरा न घटत इत्यावरणानुभवोऽपि दर्शितः ।। २७ ॥

 तमःप्रकाशवद्विरुद्धस्वभावयोः स्वप्रकाशाज्ञानयोः कूटस्थे सह वर्तनं कथं घटत इत्याशंक्याह, स्वप्रकाश इति ।

स्वप्रकाशे कुतोऽविद्या तां विना कथमावृतिः ।
इत्यादितर्कजालानेि स्वानुभूतिर्ग्रसत्यसौ ॥ २८ ॥

 स्वप्रकाशे कूटस्थेऽविद्याऽज्ञानं कुतस्संभवति? न संभवतीति भावः । तां विना अविद्याभावे आवृतिः कथं संभवति ? इत्यादितर्कजालानि आवरणा- भावे तन्निमित्तस्य विक्षेपस्याभावस्तदभावे ज्ञानवैयय्र्थं, ततस्तत्प्रतिपादकशास्त्रस्या- प्रामाण्यमित्येवंविधां हेतुवादपरंपरां स्वानुभूतिः पूर्वश्लोकोक्तानुभवो ग्रसति बाधत इत्यर्थः । तथाचाह भगवान् भाष्यकारः "अहमिदं ममेदमिति नैसर्गिकोऽयं लोक- व्यवहार” इति ॥ २८ ॥

 अनुभवबाधितस्य केवलहेतुवादस्य निष्प्रयोजनतामाह, स्वेति ।

स्वानुभूतावविश्वासे तर्कस्याप्यनवस्थितेः ।
कथं वा तार्किकंमन्यस्तत्त्वनिश्चयमाप्नुयात् ॥ २९॥

 स्वानुभूतौ स्वानुभवे अविश्वासे प्रामाण्यसंशये सति, स्वानुभवमपहाय केवलहेतुवादावष्टंभने सतीत्यर्थः, तर्कस्याप्यनवस्थितेः अनुकूलतर्काभावे केवलानुमानस्थाप्यनिश्चायकत्वस्य तार्किकैरेवांगीकृततया, तार्किकंमन्यः तार्किकमात्मानं यो मन्यते स न तु तत्त्वतस्तार्किकः स्वानुभवमपरिज्ञाय केवलस्वप्रतिभापरिकल्पितहेतुवादावलंबीत्यर्थः । सः तत्वनिश्चयं कथमाप्नुयात् ? स्वानुभवबाधकस्तर्कस्ताज्य एवेति भावः ॥२९॥