पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१७३

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१४७
कल्याणपीयूषव्याख्यासमेता

 नन्वनुभवस्य तत्त्वनिश्चायकत्वेऽप्यनुभूतस्य तत्त्वस्य संभावितत्वज्ञानार्थं तर्कोऽवश्यमाश्रयणीय एवेत्याशंक्य तर्ह्यनुभवाविरोध्येव तर्को ग्राह्यो न तु ताद्वराधात्याह,

बुद्ध्यारोहाय तर्कश्चेदपेक्षेत तथा सति ।
स्वानुभूत्यनुसारेण तर्क्यतां मा कुतर्क्यताम् ॥ ३० ॥

 अनुभूतस्य विषयस्य बुद्ध्यारोहाय सम्यग्बुद्धौ स्थिरीकरणाय तर्कोऽपेक्षे तेति चेत्तथा सति स्वानुभूत्यनुसारेण तर्क्यतां । मा कुतर्क्यतां कुत्सितवादो मा क्रियताम् । ‘श्रुतिमतस्तर्कोऽनुसंधीयत"मिति श्रुत्यनुकूलतर्कस्यानुसंधीयमान- तायाः प्रतिपादितत्वात् ॥ ३१॥

 अनुभवानुसारिणं तर्क द्वाभ्यां प्रदर्शयति, स्वेति ।

स्वानुभूतिरविद्यायामावृतौ च प्रदर्शिता ।
अतः कूटस्थचैतन्यमविरोधीति तर्क्यताम् ॥ ३१॥

 अविद्यायामावृतौ च स्वानुभूतिः “न भाति नास्ति कूटस्थ"इत्यज्ञानिनो ऽनुभवः प्राक् २७ श्लोके प्रदर्शिता । अतः कूटस्थचैतन्यस्याज्ञानावरणयोश्च यौगपद्येन भानात् स्वप्रकाशं । कूटस्थचैतन्यमविद्यावरणयोरविरोधीति तर्क्यताम्। ३१ ॥

 स्वानुभवानुसारिणं तर्क प्रदर्शयति, तदिति ।

तच्चेद्विरोधि केनेयमावृतिर्ह्यनुभूयताम् ।
विवेकस्तु विरोध्यस्यास्तत्त्वज्ञानिनि दृश्यताम् ॥ ३२ ॥

 तत् कूटस्थचैतन्यमविद्याया विरोधीतिचेत्, तर्हि तयोरेकत्रावस्थानासंभवे इयमज्ञानिनः स्वानुभूत्या प्रदर्शिता आवृतिः केनानुभूयताम्? यद्यावृतेः स्वप्रकाशस्य चैतन्यस्य चाविरोधस्तदा तत्त्वज्ञानादावरणनाश इति कथमुपपद्यते? इत्यतो मुख्यतया तद्विरोधिनं नाशकं प्रदर्शयति, विवेक इति । आवृतेर्विवेको विचारजन्यं ज्ञानं अस्या आवृतेर्विरोथी नाशकः । स च तत्त्वज्ञानिनि