दृश्यताम् । अतो विवेकस्यैवाविद्यानाशाकत्वम् । न तु केवलतत्त्वज्ञानस्य। तस्य ज्ञानस्य तत्वानतिरेकात् । तत्त्स्वस्य सर्वद: सत्वेन सर्वदा तन्नाशप्रसंग इति भाव: ॥३२॥
आवरणशक्तिस्वरूपं तत्सत्तां च प्रदर्श्य तदतिरिक्तविक्षेपशक्तिस्वरूपं प्रदर्शयति, अविद्येति ।
अविद्यावृतकूटस्थे देहद्वययुता चितिः । । |
शुक्तौ रूप्यवदारोपितं अध्यस्तं रूप्यमिव अविद्यावृतकूटस्थे अविद्यया आवृतो यः कूटस्थस्तस्मिन्नध्यस्था देहद्भययुता स्थूलसूक्ष्मदेहयुता चितिश्चिदाभासो विक्षेपाध्यास एव हि । अन्यस्यान्यथाप्रतीयमानत्वादध्यास इति भावः । येन निर्विकारे कूटस्थेऽन्योन्यधर्मा अन्योन्यस्मिन्नध्यस्यन्ते स एव विक्षेपः ॥ ३३॥
शुक्तिरजतदृष्टान्तेनाध्यासविवरणम् ।
विषयसौलभ्यायाध्याससाम्यमुभयत्र विवृणोति इदमिति ।
इदमंशस्य सत्यत्वं शुक्तिगं रूप्य ईक्ष्यते । |
आदौ पूर्वार्धेनोक्तः शुक्तौ रजताध्यासो विक्त्रियते । शुक्तिं दृष्ट्वा “ इदं रजतमि"ति व्यवहारे शुक्तिगं शुक्तिगतमिदमंशस्येदन्तारूपस्य पुरोवर्तित्वादेर्व्याव- हारिकं यत्सत्यत्वं व्यवहाराबाध्यत्वं तत् रूप्ये आरोपितमीक्ष्यते । पश्चादुत्तरार्धेन कूटस्थे देहद्वयाध्यासो विक्रियते । तथैव कूटस्थगतं स्वयंत्वं वस्तुता विक्षेपे अन्यगं स्थूलसूक्ष्मदेहसहितचिदाभासगतं वोक्ष्यते, तद्गतत्वेनेति भावः ।। ३४ ॥
दृष्टान्तदार्ष्टान्तिकयोरंशविशेषाप्रतीत्याऽपि साम्यं दर्शयति, नीलेति ।
नीलपृष्टत्रिकोणत्वं यथा शुक्तौ तिरोहितम् । |