पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१७५

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१४९
कल्याणपीयूषव्याख्यासमेता

 यथा शुक्तौ रजताध्यासे नीलपृष्ठत्रिकोणत्वं । शुक्तिगतं तिरोहितं न प्रतीयते । यथा शुक्तौ रजतस्य तद्धर्माणां चाध्यासेन शुक्तिगतनीलपृष्ठत्वादयो न भासन्ते एवं कूटस्थे स्थूलसूक्ष्मदेहादेस्तद्धर्मसंगित्वादेरध्यासेन तद्विरोध्यसंग त्वादयो न भासन्त इति भावः ।

 इदमत्र बोध्यम् । कूटस्थोऽसंगानन्दरूपः । चिदाभासोऽतथाविधः । यथा पुरोवर्तिशुक्तिकायां भ्रांत्येदं रजतमिति रजतत्वारोपे इदंपदार्थे वस्तुतो विद्यमानं नीलपुष्ठत्रिकोणत्वादि तिरे दधाति, एवं कूटस्थे चिदाभासस्याहंशब्दवाच्यस्यारोपे कूटस्थनिष्ठासंगानन्दादि तिरोभवति । शुक्तिकायां विद्यमानं पुरोदेशसंबंधित्व मारोपितरजते यथा भासमानं तथा कूटस्थनिष्ठं स्वयंत्वम् चिदाभासे भासमानं भवति। इदं रजतमित्यादाविवेंद्रियसन्निकर्षादेरभावेऽप्यारोप्याधिष्ठानस्यात्मन इंद्रियगोचरत्वेऽपि स्वप्रकाशत्वेनाध्यासः संगच्छते । यद्यपि स्वयमात्मकूटस्थशब्दा एकार्थकाः । तथापि तत्र कूटस्थे आत्मनि चिदाभासाध्यासे स्वयमहंशब्दयोरेकार्थकत्वमपि नापतति । स्वयंशब्दार्थस्य “अहं स्वयं शक्नोमि” ‘त्वं वीक्षस्व स्वय” मित्यादावनुगतत्वेन व्यापकतया अहंत्वादेर्व्याप्यतया इदंत्वरजतत्वादेरिव सामान्य विशेषभावे न तयोर्भेदस्य निश्चितत्वात् । स्वयंत्वं चान्यत्दं निवारयत्कूटस्थतामेव निश्चाययति । स्वयंत्वात्मत्वयोरेकत्वेऽपि घटादिष्वचेतनेषु स्वयंशब्दप्रयोगो न विरुध्यते । तत्रात्मत्वस्य व्यापकस्य अव्यभिचारात्। धटादिषु स्वयंशब्दप्रयोगेऽपि तत्र बुद्धिप्रतिफलितचैतन्याभावाच्चेतनाचेतनविभागः समंजसः संपद्यत इति तेष्षचेतनव्यवहारस्य नानुपपत्तिः । आत्मन एकत्वेन चिदाभासकल्पनाधिष्ठानत्वस्येव अचेतनघटादिकल्पनाधिष्ठानस्यावश्यमभ्युपगमात् । स्वत्वात्मत्वयोरेकत्वेऽहमादि ष्वनुगतस्य स्वत्वादेरात्मत्वमिवेदमात्मत्वं तदात्मत्वमित्यादावनुगतमिदंत्वतत्वाद्यात्मत्वमेवेति न शंकनीयम् । सम्यगात्मत्वमित्यादौ सम्यक्त्वमात्मत्वानुगतमप्यन्यत्राप्ति सम्यक्त्वव्यवहारात् पृथग्भूतमिव तदात्मत्वमिदमात्मत्वमिति तत्तेदन्तयोरात्मानुगतत्वेऽपि स घट अयं घटः इत्यत्रापि तत्तेदन्तयोर्दर्शनेनात्मत्वव्यभिचारात् । एते विरुद्धधर्माः । तत्त्वप्रतियोगीदन्त्वम् । स्वत्वप्रतियोग्यन्यत्वम् । त्वन्ताप्रतियोग्यहन्ता। अन्यत्र प्रतियोगिनि स्वयंशब्दार्थे कूटस्थे त्वन्ताप्रतियोग्यहंशब्दार्थः