पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१७६

पुटमेतत् सुपुष्टितम्
१५०
[चित्रदीप
पञ्चदशी

परिकल्पितः। एवं जीवकूटस्थयोर्भेदः स्फुटमवगम्यमानोऽप्यविद्यावशंवदाः कूटस्थस्य बुद्ध्यगोचरत्वात्तयोरेकतामवगच्छन्ति । अविद्यपरिकल्पित एवैष जीवकूटस्थयो- र्भ्रमोऽविद्यानिवर्तकं ज्ञानं विना न निवर्तत इति द्विपंचाश्छलोकपर्यन्तं वक्ष्यमाण ग्रन्थस्य संगृहीतोऽर्थ इति ॥३५॥

 उभयत्रान्यारोपेण केषांचिदंशानामप्रतीत्या नामान्तरप्राप्त्यापि साम्यमित्याह । आरोपितस्येति ।

आरोपितस्य दृष्टान्ते रूप्यं नाम यथा तथा।
कूटस्थाध्यस्तविक्षेपनामाऽहमिति निश्चयः ॥ ३६ ॥

 यथा दृष्टान्ते शुक्तिस्थले आरोपितस्य वस्तुनो रूप्यमिति नाम भवति तथा कूटस्थाध्यस्तविक्षेपनाम कूटस्थेऽध्यस्थो यो विक्षेपश्चिदाभासस्वरूपस्तस्य नाम अहमिति निश्चयः ॥ ३६॥

 विपरीतनामानुभवं दर्शयति इदमिति ।

इदमंशं स्वतः पश्यन् रूप्यमित्यभिमन्यते ।
तथा स्वं च स्वतः पश्यन्नहमित्यभिमन्यते । ३७॥

 यथा शुक्तिस्थले इदमंशमिदन्तां स्वतः पश्यन् पुरोवर्तिनीं शुक्तिं वस्तु- मात्रेण निर्दिशन् तत् रूप्यमित्यभिमन्यते रजताभिमानी भवति, तथा स्वतः परमार्थतः स्वयंप्रकाशं स्वमात्मानमेव पश्यन्नहमित्यभिमन्यते तत्राहंकाराभिमानी भवति ॥३७ ॥

 इदन्त्वरूप्यत्वांशयोर्विशेषणीभूतयोर्भिन्नत्वेऽपि विशेष्यभूतो व्यक्त्यंशो यथा दृष्टान्तेऽभिन्नस्तथा दार्ष्टान्तिके स्वयन्ताऽहन्तयोर्विशेषणीभूतयोर्धर्मयो भिन्नत्वेऽपि धर्मीणोऽभेद एवेत्युभयोरप्युभयत्र समाना प्रतीतिरित्याह इदमिति ।

इदन्त्वरूप्यते भिन्ने स्वत्वाहन्ते तथेष्यताम् ।
सामान्यं च विशेषश्च ह्युभयत्रापि गम्यते ॥ ३८ ॥