अहन्त्वाद्भिद्यतां स्वत्वं कूटस्थे तेन किं तव । |
यद्यपि कूटस्थे स्वत्वमहन्त्वाज्जीवे वर्तमानाद्भिद्यतां नाम । तेन तव पूर्व- पक्षिणः किं को लाभः? तेन भेदमात्रेण विशेष्ये भेदालाभात् । तदेतदाह, स्वयमिति । स्वयंशब्दार्थः स्वयंशब्दजन्यबोधविशेष्य एष कूटस्थ एवेति मे भवेत् ॥ ४१ ॥
स्वयंशब्दार्थः कूटस्थं बोधयतीति कथमुच्यते? स्वत्वस्य तद्विशेषणीभूतस्य धर्मान्तरनिवारकत्वात् कूटस्थत्वस्य तत्त्वादित्याशंकां समाधत्ते अन्यत्त्वेति ।
अन्यत्ववारकं स्वत्वमिति चेदन्यवारणम् । |
त्वत्वं स्वयंशब्दार्थविशेषणोभूतो धर्मोऽन्यत्ववारकमन्यत्वरूपस्य धर्मस्य निवारकमिति वदसि चेत्तदन्यवारणं स्वयंशब्दार्थस्य कूटस्थस्यात्मतां वक्तुर्मे इष्टमेव भवेत् । अन्यत्वनिवारकेण स्वयंत्वेन बोधितो यः कूटस्थः स एवात्मेति सिध्यति । एवं च नेति नेतीति वाक्येन कूटस्थेतरनिवारणेनैव ब्रह्मणस्सिद्धिरित्यतः स्वयंशब्दस्येतरार्थनिवारकताऽस्माकमभीष्टार्थसाधिकैवेति भावः ॥४२॥
स्वयंशब्दार्थः कूटस्थोऽस्तु । तस्यात्मता कुतः सिध्यति ? स्वयंशब्दार्थ विशेषणीभूतस्वत्वस्यान्यनिवारकत्वाभ्युपगमेनात्मत्वस्यापि निवारणप्रसंगादि त्याशंक्य स्वत्वमांत्मत्वं चैकमेव, न भिन्नौ धर्मौ, अतः स्वत्वमात्मत्वं न वार यतीत्युपपादयति, स्वयमिति ।
स्वयमात्मेति पर्यायौ तेन लोके तयोस्सह ।। |
स्वयमात्मेति द्वौ शब्दौ पर्यायौ समानप्रवृत्तिनिमित्तकौ। ययोः शब्दयोः प्रयोगे एक एवार्थो बुध्यते तौ शब्दौ पर्यायावित्युच्येते । तेन कारणेन लोके तयो स्स्वयमात्मशब्दयोः सहग्रयोगः स्वयमात्मेति युगपत्प्रयोगो नास्ति; तत्प्रवृत्तिनिमि