पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१७९

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१५३
कल्याणपीयूषव्याख्यासमेता

तयोरेकत्वात् । सहप्रयोगे च धर्मभेदो नियामकः । तथा च सहप्रयोगाभावेन स्वत्वात्मत्वयोर्मिन्न्धर्मत्वं नास्तीत्यवगन्तुं शक्यने । एवं सहप्रयोगाभावेन स्वत्वात्मत्वयोर्भेदं निराकृत्य तयोर्व्यापारैक्येनापि भेदाभावं साधयति,अत इति।अतः स्वत्वमात्मत्वं चान्यवारकमिति स्वत्वात्मत्वयोरन्यवारणमेव व्यापारो नान्यः । एवं च व्यापारैक्यात् तदैक्यं च ज्ञातुं शक्यमिति भावः ॥ ४३॥

 एतावता प्रबन्धने स्वत्वं कूटस्थात्मधर्म इति साधितम् । आत्मा च चेतनः । एवं च चेतनधर्मस्य स्वत्वस्याचेतने कथं स्थितिः? तदभावे "घटः स्वयं न जानाती"त्यादिव्यवहारः कथमुपपद्यते? अचेतने घटे स्वयन्ताया बाधादित्याशंक्य समाधत्ते, घट इत्यादि ।

घटः स्वयं न जानातीत्येवं स्वत्वं घटादिषु ।
अचेतनेषु दृष्टं चेद्दृश्यतामात्मसत्वतः ॥ ४४ ॥

 ननु "घटः स्वयं न जानाती ”त्येवं रूपे प्रयोगेऽचेतनेषु घटादिषु स्वत्वं स्वत्वरूपो धर्मो दृष्टः । तत्र स्वयन्ताभावे एतत्प्रयोगानुपपत्तेरितिचेदात्मसत्त्वतस्ते- ष्वप्यात्मसत्वतः स्फुरणरूपेण आत्मनो विद्यमानत्वात्स्वयं शब्दप्रयोगो दृश्यताम् । आत्मनिष्ठस्वत्वस्य घटेऽध्यासादयं व्यवहार औपचारिक:, वस्तुनो घटे स्वत्वं नास्त्येवेति भावः ॥४४ ॥

 यदि घटाद्यचेतनेष्वात्मत्वस्वयंत्वव्यवहारस्तर्हि चेतनाचेतनविभाग एव न स्यादित्याशंक्याह, चेतनेति ।

चेतनाचेतनभिदा कूटस्थात्मकृता न हि ।
किं तु बुद्धिकृताभासकृतैवेत्यवगम्यताम् ॥ ४५ ॥

 चेतनाचेतनाभिदा अयं चेतनोऽयमचेतन इति भेदः कूटस्थात्मकृता कूटस्थरूपो य आत्मा तेन कृता न हि, तद्भेद आत्मनो भावाभावकल्पितो नेत्यर्थः, उभयत्राप्यात्मनः सत्वस्य समानत्वात् । तर्हि कुतोऽयं भेद इत्यत आह, किंत्विति । बुद्धिकृताभासकृता बुद्ध्या कृतो बुद्धौ प्रतिबिंबितो य आभासश्चिदा

20