पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१८

पुटमेतत् सुपुष्टितम्

१४

भीतिरुदेति भारतवैज्ञानिकाभिमानिनां हृदयसीमसु । तस्योद्धरणे नान्यमुपायमुपलभामहे ऋते गीर्वाणवाणीमुखेनार्याणां विज्ञानपरिज्ञानात् । शास्त्रजातस्य क्लिष्टतया तद्बोधितविषयाणामौपनिषदस्य तत्त्वस्य च सुगमतया बोधकः संस्कृतभाषात्मको ग्रन्थराशिः तादृशं व्याख्यानजातं चाद्य भृशमपेक्ष्यते । प्राप्तोऽयं समयः संस्कृतभाषाभिज्ञानां लौकिकभाषात्मकग्रन्थरचनायै यावदध्येतृजनोऽचिरेणैव लोकयात्रायामुत्तमं स्थानमाक्रामेत् । यथार्हमभ्युदयनिःश्रेयसे प्राप्नुयाच्च ।

 पञ्चपञ्चप्रकरणपरिमितभागत्रयविशिष्टानि पञ्चदशप्रकरणान्यस्मिन् ग्रन्थे संलक्ष्यन्ते । तत्र प्रथमो भागो विवेकपञ्चकमिति, द्वितीयो दीपपञ्चकमिति तृतीय आनन्दपञ्चकमिति च ज्ञायते । ब्रह्मशब्देन सच्चिदानन्दात्मकमेकमेवाद्वितीयं परं ब्रह्माभिधीयते । तच्च साक्षात्कार्यं वस्तु । तद्भिन्नतया भासमानस्य भूतभौतिकसृष्टेस्तन्निदानभूतजीवेश्वरसृष्टेश्च विवेचनेन तत्साक्षात्कारसिद्धिः। एवमसतो विवेचितस्य परमात्मनः प्रत्यगभिन्नता च तत्त्वमस्यादिमहावाक्यार्थविचारणेन बोध्यते । इयं विवेचनारीतिर्वेिवेकपञ्चकाख्ये प्रथमपञ्चके विव्रियते । एतादृशविवेचनाफलं च तत्त्वमसीतिमहावाक्यघटकतच्छब्दबोधितस्य प्रत्यगभिन्नपरब्रह्मणोऽवगतिः । अद्वितीये परे ब्रह्मणि मायया जगज्जीवेश्वराः प्रकल्पिताः । कूटस्थब्रह्मजीवेश्वरा इति चितेश्चातुर्विध्यं त्रिविधायाः प्रकृतेरन्यतमया अविद्यया परिकल्पितस्य जगज्जीवेशब्रह्मभेदभावस्य मिथ्यात्वं अविद्यानाशकमार्गश्च द्वितीये पञ्चके विज्ञाप्यते । जीवेशगताविद्यातमोनाशने दीपायत इति दीपपञ्चकमित्यन्वर्थनाम्ना तदुच्यते । तत्फलं चोक्तमहावाक्यगत "त्वं" पदार्थस्य स्पष्टतः प्रतीतिः । जीवब्रह्मणोरसिशब्देन बोधितमैक्यं ब्रह्मणः परमानन्दस्वरूपत्वम् । अन्ये विद्यानन्दादयस्तस्य परमानन्दस्य मात्राभूताः । एते विविधानन्दा आनन्दाभिधे तृतीयपञ्चके वर्ण्यन्ते । एवं सर्वोपनिषदां मकुटालंकारभूतस्य “तत्त्वमसी"ति महावाक्यस्य व्याख्यानस्थानमलंकुर्वत् विवेकदीपानन्दाभिधेयं प्रकरणपञ्चकत्रयमन्वर्थनाम भवति ।

 आसृष्टेरपि यन्मूलकारणान्वेषणे महतामपि बुद्धिः कुंठीभवत्यचिन्त्यरचनावैभवस्यास्य जगतोऽसत्यत्वं तमोरूपया मायया नित्ये निर्विकारे परे ब्रह्मणि तस्यारोपितत्वं जीवब्रह्मणोरैक्यज्ञानमन्तरा निःश्रेयसाख्यस्य मोक्षस्य दुःसाधत्वं जीवेशयो