पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१८२

पुटमेतत् सुपुष्टितम्
१५६
[चित्रदीप
पञ्चदशी

अहन्तास्वत्वयोर्भेदे रूप्यतेदन्तयोरिव ।
स्पष्टेऽपि मोहमापन्ना एकत्वं प्रतिपेदिरे ॥ ५१ ॥

 रूप्यतेदन्तयोरिव यथेदमिति निर्दिश्यमाने वस्तुनि शुक्तौ भ्रान्त्या तद्भिन्नस्य रूप्यत्वस्यारोपितत्वात् भेदे स्पष्टेऽपि तमजानंतो मोहमापन्ना एकत्वं प्रतिपेद्रिरे “इदं रजतमित्यभेदेन व्यवहरन्ति, तथाऽहन्तास्वत्वयोरहंस्वयंशब्द- बोध्ययोर्धर्मयोर्भेदे पूर्वोक्तदिशा स्पष्टेऽपि जीवकूटस्थयोर्भेदे सुविदितेऽपीत्यर्थः । मोहमापन्ना जना अन्यधर्मानन्यस्मिन्नारोप्यैकत्वं प्रतिपेदिरे ॥ ५१ ॥

 तव भ्रान्तेः कारणमाह,तादात्म्येति ।

तादात्म्याध्यास एवात्र पूर्वोक्ताविद्यया कृतः।
अविद्यायां निवृत्तायां तत्कार्यं विनिवर्तते ॥ ५२ ॥

 अत्र भिन्नयोरहन्तास्वत्वयोरेकत्वापादने तादात्म्याध्यासा जीवकूटस्थयो- रैक्यकल्पना पूर्वोक्ताविद्यया पूर्वस्मिन् पंचविंशतितमश्लोके उक्ता या अविद्या जीवकूटस्थविवेचनासामर्थ्यरूपानादिरविवेकात्मकमूलविद्या तया कृतः कल्पितः। अविद्यायां निवृत्तायां तत्कार्यं तस्या अविद्यायाः कार्यमध्यासरूपं विनिवर्तते स्वयमेव नश्यति । उपादानकारणनाशे कार्यनाशस्य लोके दृष्टत्वादितिभाबः ॥५२॥

अविद्यानिवृत्तौ तत्कार्यनाशः ।

 नन्वविद्यांनिवृत्तौ तत्कार्यं विनिवर्तत इत्यनुपपन्नम्, अविद्यानाशकब्रह्मा- त्मैकत्वविद्यायां जातायामप्यविद्याकार्यस्य देहादेज्ञानदशायामप्युपलंभादित्या- शंक्याह, अविद्येति ।

अविद्यावृतितादात्म्ये विद्ययैव विनश्यतः।
विशेपस्य स्वरूपस्तु प्रारब्धक्षयमीक्षते ॥ ५३ ॥

 विद्यया चिदाभासकूटस्थैक्यज्ञानेन अविद्यावृतितादात्म्ये अविद्यमात्रकृते आवृतिर्न भाति नास्ति कूटस्थ इत्याकारिका तदात्म्यमविद्यावृतकूटस्थस्य देहद्वय विशिष्टचिदाभासस्य चैक्याध्यासरूपविक्षेपश्च विनश्यतः। किं तु प्रारब्धकर्म